SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१७५॥ तत्किं यत्रैव स्थितं तत्रैव वेदनानिबन्धनमुतान्यत्रापि, यदि तत्रैव तर्हि त्वन्मतेन बहिरेवैतदवस्थितमित्यन्तःसातादिवेदनोच्छेदप्रसङ्गः, अथान्यत्रापि तद्वेदनानिवन्धनं तर्हि किं नैकात्मस्थितं सर्वात्मखपि?, उक्तं च-"जइ वावि भिन्नदेसंपि वेयणं कुणइ कम्ममेवं ते । कह अन्नसरीरगयं ण वेयणं कुणति अन्नस्स ? ॥१॥" तथा च कृतनाशाकताभ्यागमप्रसङ्गः, अथ येनैव कृतं तस्यैव तन्निवन्धनं, तथापि पादवेदनायां शिरोवेदनाऽऽपत्तिः, अथ सञ्चारित्वात्तस्यान्तरप्यवस्थानमिति नान्तः सातादिवेदनोच्छेदप्रसङ्गः, एवं तर्हि न कञ्चकतुल्यता, तस्य बहिरेव नियतत्वात् , युगपदुभयत्र वेदनाऽभावप्रसङ्गश्च, यथा च बहिःस्थमन्तःसञ्चारितया वेदनाहेतुरेवमन्तःस्थितं बहिःसञ्चारितया तद्धेतुरिति विपर्ययकल्पनापि किं न ?, नियामकाभावात् , सञ्चारित्वे च कर्मणो वायोरिव न भवान्तरानुवृत्तिः, तदुक्तम्-“भवंतरमण्णेई सरीरसंचारतो तदणिलो च"त्ति, किञ्च-काञ्चनोपलयोरपि पृथग्भावोऽस्ति | वा न वा ?, न तावन्नास्ति प्रत्यक्षतस्तद्दर्शनात् , अस्तित्वे च यथा भविष्यत्पृथग्भावित्वेऽपि तयोरविभागावस्थानेन स्पृष्टमात्रता तथा जीवकर्मणोरपि स्यात् , न च काञ्चनसत्वैव तत्र पूर्व नास्ति, चाकचिक्यदर्शनात्प्रत्यक्षतः, तथा यत्र यन्नास्ति न तस्य तत उत्पादः, सिकताभ्य इव तैलस्येत्यनुमानतश्च तत्सिद्धेः, ततश्च–'यत्र यद्वेदनाहेतुः, कम्म १ यदि वाऽपि भिन्नदेशमपि वेदनां करोति कर्म एवं ते । कथमन्यशरीरगतं न वेदनां करोत्यन्यस्य ? ॥१॥२ न भवान्तरमन्वेति त शरीरसञ्चारतस्तदनिल इव । ॥१७५॥ For Personal & Private Use Only dan Education International www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy