________________
HOSAROSAGAROSSAGACASS
य आत्मप्रदेशोऽवगाढः तेन तत्रैवावगाढं कर्म गृह्यते इत्युक्तम् , अत एवाह शिवशर्माचार्यः-“एगपएसोगाढं सच्चपएसेहि कम्मुणो जोगं । गेण्हइ जहुत्तहेऊ साईयमणाइयं वावि ॥१॥" अथौपचारिकं यथा हि कञ्चकी कञ्चकेनेवावष्टब्धश्चावृतश्च, एवं जीवप्रदेशा अपि कर्मप्रदेशैरिति मुख्यपरिवेष्टनाभावेऽपि तेषां तत्परिवेष्टनमुच्यते, तर्हि स्फुटवास्मदिष्टबन्धसिद्धिः, अस्माकमप्यनन्तकर्माणुवर्गणाभिरात्मप्रदेशानामुक्तरूपपरिवेष्टनस्यैव बन्धत्वेनेष्टत्वात्, आगमश्चात्र-“एगेमेगे आयपएसे अणंताणंताहिं कम्मवग्गूहिं आवेढियपरिवेढियत्ति,' ततश्च विपर्ययसाधनाद्विरुद्धो हेतुः सकलजीवप्रदेशप्रचयपरिवेष्टनेनेत्यस्मिन्नपि पक्षे भिन्नदेशकर्मग्रहणेन तथैव सिद्धान्तविरोधः, तथा तत्र बहिः प्रदेशबन्ध एव कर्मणः सम्भवति, ततश्च मलस्येव न तस्य भवान्तरानुवृत्तिः, एवं च पुनर्भवाभावः, सिद्धानां वा पुनर्भवाऽऽपत्तिः, न च मलस्य शरीरेण स्पृष्टतया दृष्टान्तवैषम्यं, शरीरात्मप्रदेशानामन्योऽन्यमविभागेनावस्थानाद्, अन्यथा हि मृणालस्पर्शाद्यनुभवाभावप्रसङ्गः, किञ्च-इयं देहान्तः सातादिवेदना सनिवन्धना निर्निबन्धना वा १, निर्निबन्धना चेकिन सिद्धानामपि ?, सनिबन्धनत्वे च किं पयःपानादिदृष्टहेतुकैव यद्वा कर्मनिबन्धनापि ?, यदाऽऽद्यः पक्षस्तर्हि बहिर्वेदनापि दृष्टा बाह्यहेतुकैवेति किं कर्मकल्पनया ?, अथ कर्महेतुकाऽपि तर्हि हा १ एकप्रदेशावगाढं सर्वप्रदेशैः कर्मणो योग्यम् । गृह्णाति यथोक्तहेतोः सादिकमनादिकं वाऽपि ॥१॥२ एकैक आत्मप्रदेशोऽन्तानन्ताभिः
कर्मवर्गणाभिरावेष्टितपरिवेष्टित इति ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org