SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. चतुरङ्गीया ध्ययनम् बृहद्वृत्तिः ॥१७४॥ पुट्ठो जहा अबद्धो कंचुइणं कंचुओ समन्नेइ। एवं पुट्ठमबद्धं जीवं कम्म समन्नेइ ॥ १७६ ॥ व्याख्या-जहा सो कंचुकिणं पुरिसं फुसति, ण उण सो कंचुओ सरीरेण समं बद्धो, एवं चेव कम्मपि पुटुं, ण उण बद्धं जीवपएसेहिं समं, जस्स बद्धं तस्स कम्मसंसारवुच्छित्तीण भविस्सति, ताहे सो भणति-एत्तियं आयरिएहिं अम्हं भणियं, एसो ण याणति, ताहे सो संकितो समाणो पुच्छतो गतो, मा मए अन्नहा गहियं हवेजा, ताहे| पुच्छिया आयरिया, तैरुक्तम्-यथा तस्यायमाशयः-यतो यत्स्यिते तेन, स्पृष्टमात्रंतदिष्यताम् । कञ्चकी कञ्चकेनेव, कर्म भेत्स्यति चात्मनः॥१॥प्रयोगः-यद्येन भविष्यत्पृथग्भावं तत्तेन स्पृष्टमात्रं, यथा कञ्चकः कञ्चुकिना, भविष्यत्पृथग्भावं च कर्म जीवेन, अत्र प्रष्टव्योऽयम्-कञ्चकवत्स्पृष्टमात्रता कर्मणः किमेकैकजीवप्रदेशपरिवेष्टनेन सकलजीवप्रदेशप्रचयपरिवेष्टनेन वा ?, यद्येकैकजीवप्रदेशपरिवेष्टनेन तत्किमिदं परिवेष्टनं मुख्यमौपचारिकं वा ?, यदि मुख्य सिद्धान्तविरोधः, मुख्यं हि परिक्षेपणमेव परिवेष्टनम् , एवं च भिन्न देशस्य कर्मणो ग्रहणं, सिद्धान्ते तु यत्राकोशदेशे | १ यथा स कञ्चुकिनं पुरुषं स्पृशति, न पुनः स कञ्चकः शरीरेण समं बद्धः, एवमेव कर्मापि स्पृष्टं न पुनर्बद्ध जीवप्रदेशैः समं, यस्य बद्धं तस्य कर्मसंसारव्युच्छित्ती न भविष्यतः, तदा स भणति-एतावदाचारस्मभ्यं भणितम् , एष न जानाति, तदा स शङ्कितः सन् प्रच्छको गतः, मा मयाऽन्यथा गृहीतमभविष्यत् (भूत् ), तदा पृष्टा आचार्याः ॥१७॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy