Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
%
उत्तराध्य. बृहद्वृत्तिः ॥२१२॥
MOCOCONNECESSAX
यथा द्रव्यतोऽपारनीरधिविमझानां कदा कदैतदन्तः स्यात् इत्यालितचेतसामाश्वासनहेतुराश्वासद्वीपः, एवं संसा-असंस्कृता रसागरमपारमुत्तरीतुमनसामत्यन्तमुद्वेजिताना मव्यानामाश्वासनहेतुः सम्यग्दर्शनं भावावासद्वीपः, तत्र हि द्रव्यद्वीप इव वीचिभिः कुवादिभिरमी नोयन्ते नापि मकरादिभिरिवानन्तानुबन्धिभिः क्रोधादिभिरतिरौद्ररप्युपद्रूयन्ते, यथा च द्रव्याश्वासद्वीपः प्लाव्यमानतयैकः सम्दीनः तथाऽयमपि भावाश्चासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपशमिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिवन्धनैर्जलचरैरिवानेकद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अत एव च न तत्स्थस्तनिवन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भावद्वीपः, तथा यथैव तमसाऽन्धीकृतानामपि प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमप्येका संयोगिमोऽन्यश्चान्यथा, तत्र यः श्रुतज्ञानात्मको भावदीपः अक्षरपदपादश्लोकादिसंहतिनिर्वर्तितः स संयोगिमः, यस्त्वन्धनिरपेक्षी निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ २०७॥ व्याख्यातं सूत्रस्पर्शिकनियुक्त्या दीव'त्ति सूत्रपदम् , अत्र च प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पण? वत्ति' प्रक
| ॥२१२॥ भाषण मष्टो दृष्टयगोचरतां गतः प्रणष्टो दीपोऽस्येति प्राकृतत्वात्प्रणष्टदीपः, आहिताग्यादेराकृतिगणवाद्वा दीपप्रणष्टः तदिति दृष्टान्ता, अत्र सम्प्रदाय:
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458