SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ % उत्तराध्य. बृहद्वृत्तिः ॥२१२॥ MOCOCONNECESSAX यथा द्रव्यतोऽपारनीरधिविमझानां कदा कदैतदन्तः स्यात् इत्यालितचेतसामाश्वासनहेतुराश्वासद्वीपः, एवं संसा-असंस्कृता रसागरमपारमुत्तरीतुमनसामत्यन्तमुद्वेजिताना मव्यानामाश्वासनहेतुः सम्यग्दर्शनं भावावासद्वीपः, तत्र हि द्रव्यद्वीप इव वीचिभिः कुवादिभिरमी नोयन्ते नापि मकरादिभिरिवानन्तानुबन्धिभिः क्रोधादिभिरतिरौद्ररप्युपद्रूयन्ते, यथा च द्रव्याश्वासद्वीपः प्लाव्यमानतयैकः सम्दीनः तथाऽयमपि भावाश्चासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपशमिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिवन्धनैर्जलचरैरिवानेकद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अत एव च न तत्स्थस्तनिवन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भावद्वीपः, तथा यथैव तमसाऽन्धीकृतानामपि प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमप्येका संयोगिमोऽन्यश्चान्यथा, तत्र यः श्रुतज्ञानात्मको भावदीपः अक्षरपदपादश्लोकादिसंहतिनिर्वर्तितः स संयोगिमः, यस्त्वन्धनिरपेक्षी निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ २०७॥ व्याख्यातं सूत्रस्पर्शिकनियुक्त्या दीव'त्ति सूत्रपदम् , अत्र च प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पण? वत्ति' प्रक | ॥२१२॥ भाषण मष्टो दृष्टयगोचरतां गतः प्रणष्टो दीपोऽस्येति प्राकृतत्वात्प्रणष्टदीपः, आहिताग्यादेराकृतिगणवाद्वा दीपप्रणष्टः तदिति दृष्टान्ता, अत्र सम्प्रदाय: Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy