________________
जनान् खस्थीकरोतीत्याश्वासः, स एव दीवत्तिपदसम्बन्धात् प्राकृतस्य शतमुखत्वादाश्वासद्वीप इति भवति, तथा प्रकाशयति-घनतिमिरपटलावगुण्ठितमपि घटादि प्रकटयतीति प्रकाशः, सर्वधातूनां पचादिषु दर्शनात् , स चासौ दीप्यत इति दीपश्च प्रकाशदीपः, स च भवति दीवत्तिपदवाच्य इति गाथार्थः ॥ २०६ ॥ पुनरनयोरपि भेदमाहसंदीणमसंदीणो संधिअमस्संधिए अ बोद्धवें । आसासपगासे अ भावे दुविहो पुणिक्किको ॥ २०७॥ | व्याख्या-संदीयते-जलप्लावनात् क्षयमाप्नोतीति सन्दीनः, तदितरस्त्वसन्दीनः, तथा 'संजोगिमे यत्ति संयोगिमः, यस्तैलवय॑ग्निसंयोगेन निवृत्तः, असंयोगिमश्च तद्विपरीत आदित्यबिम्बादिः,स ह्येक एव प्रकाशक इति 'ज्ञातव्यः' अवबोद्धव्यः, पठ्यते च-'सन्धियमस्सन्धिए य बोद्धचे' इहापि 'सन्धितः' संयोजितः, तद्विपरीतस्तु 'असन्धितः' असंयोजितः, 'आसासपगासे य'त्ति आश्वासद्वीपः प्रकाशदीपश्च, यथाक्रमं चेह सम्बन्धः, तत्रावासद्वीपः सन्दीनासन्दीनः, प्रकाशदीपश्च संयोगिमासंयोगिम इति, अयं च द्रव्यत एवेति व्यामोहापनयनायाह-'भावेऽपि' भावविषयोऽपि, 'दुविह'त्ति द्विधा, 'पुन'रिति प्रथमभेदापेक्षम् , एकैकः' इत्याश्वासद्वीपःप्रकाशदीपश्च, इदमुक्तं भवति१ वयिमखचिमादयः ( उ० ३५०) इति सूत्रादिमो न्यवादेरप्याकृतिगणत्वाद्गत्वं च । २ संधानं संधा सा जाताऽस्येति संधितः ।
*-*--*-ॐॐॐ45
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org