Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२२६॥
मंदाय फासा बहुलोभणिज्जा, तहप्पगारेसुम णं ण कुँजा ।
रक्खेज्ज कोहं विणएज्ज माणं, मायं ण सेवेज पहिज्ज लोहं ॥ १२ ॥ (सूत्रम् )
व्याख्या – 'मुहुर्मुहुः' वारं वारं सततप्रवृत्त्युपलक्षणमेतत्, मोहयति - जानानमपि जन्तुमाकुलयति प्रवर्त्तयति चान्यथेहेति मोहः तस्य गुणाः मोहगुणाः - तदुपकारिणः शब्दादयः, तान् 'जयंतं' अभिभवन्तं किमुक्तं भवति : - अविच्छेदतस्तज्जयप्रवृत्तं यद्वा कथञ्चिन्मोहनीयात्यन्तोदयत एकदा तैः पराजितमपि पुनः पुनस्तज्जयं प्रति प्रवर्त्तमानं न तु तत एव विमुक्तसंयमोद्योगम्, 'अनेकरूपाः' अनेकमिति - अनेकविधं परुषविषम संस्थानादिभेदं रूपं - स्वरूपमेषामिति अनेकरूपाः, श्रमणं चरन्तं प्राग्वत्, 'फास' ति स्पृशन्ति खानि खानीन्द्रियाणि गृह्यमाणतया इति स्पर्शाःशब्दादयस्ते 'स्पृशन्ति' गृह्यमाणतयैव सम्बभन्ति, 'असमंजसम्' अननुकूलमिति क्रियाविशेषणमेतत्, चशब्दोऽवधारणे, असमञ्जसमेव, अथवा स्पर्शन विषयाः - स्पर्शाः स्पृशन्ति, स्पर्शोपादानं चास्यैव दुर्जयत्वाद्यापित्वाच्च, न 'तेषु' स्पर्शेषु 'भिक्षुः' मुनिः, मनसा उपलक्षणत्वाच्च वाचा कायेन च यद्वाऽपिशब्दस्य लुप्तनिर्दिष्टत्वान्मनसाऽपि आस्तां वाचा कायेन वा, 'पदूसे' त्ति प्रदुष्येत् प्रद्विष्याद्वा, किमुक्तं भवति ? - कर्कश संस्तारकादिस्पर्शादौ हन्तोपतापिता वयमेतेनेति न चिन्त
Jain Education International
For Personal & Private Use Only
असंस्कृता.
४
॥२२६॥
www.jainelibrary.org

Page Navigation
1 ... 452 453 454 455 456 457 458