Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 437
________________ धम्म समायरे ॥१॥" एवं ज्ञपरिज्ञया परिज्ञाय ततः प्रत्याख्यानपरिज्ञया च भक्तं प्रत्याख्याय, सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलवदत्यन्तमात्मनि लीनतया मलः-अष्टप्रकारं कर्म तदपध्वंसत इत्येवंशीलः मलापध्वंसी-मलविनाशकृत् , स्यादिति शेषः, ततो यावल्लाभं देहधारणमपि गुणायैवेति भावः, यद्वा जीवितं बृंहयित्वा लाभान्तरे-लाभविच्छेदेऽन्तर्बहिश्च मलाश्रयत्वान्मल:-औदारिकशरीरं तदपध्वंसी स्यात् , कोऽर्थः १-जीवितं त्यजे द्, इदमुक्तं भवति-अयमस्यैको हि गुणो मानुष्यमवाप्य लभ्यते धर्म इति भावयन् यावदितस्तल्लाभः तावदिदं दाहयेत् , लाभविच्छेदं सम्भाव्य संलेखनादिविधानतस्त्यजेत् ॥ इह च यावल्लाभधारणे मण्डिकचौरोदाहरणं,* तत्र च सम्प्रदायः विनायडे नयरे मंडितो नाम तुण्णातो परदवहरणपसत्तो आसी. सोय दुगडो मित्ति जणे पगासेंतो जाणुदेसेण णिचमेव अहयालेवलित्तेण रायमग्गे तुण्णागस्स सिप्पमुवजीवति. चंकमंतोऽवि य दंडधरिएणं पाएण किलिस्संतो कहिंवि चंकमति, रत्तिं च खत्तं खणिऊण दवजायं घेत्तुण णगरसंनिहिए उजाणेगदेसे भूमिघरं, तत्थ णिक्खि १ बेझाकतटे नगरे मण्डिको नाम तन्तुवायः परद्रव्यहरणप्रसक्त आसीत् , स च दुष्टत्रणोऽस्मीति जने प्रकाशयन् जानुदेशेन नित्य४||मेव आर्द्रकलेपलिप्तेन राजमार्गे तन्तुवायस्य शिल्पमुपजीवति,चक्रम्यमाणोऽपि च धृतदण्डेन पादेन विश्यम् कचिदपि चक्रम्यते, रात्री च | क्षत्रं खनित्वा द्रव्यजातं गृहीत्वा नगरसन्निहिते उद्यानैकदेशे भूमिगृहं, तत्र निक्षि SACRECACACAकर Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458