Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 435
________________ CLoCOLOCALCHAOSANAMA तकर्तव्येषु यतितव्यमिति प्रज्ञा-बुद्धिरस्येति-आशुप्रज्ञः, किमिति आशुप्रज्ञः, यतो घूर्णयन्तीति घोराः-निरनु कम्पाः, सततमपि प्राणिनां प्राणापहारित्वात् ,क एते ?-'मुहूर्ताः' कालविशेषाः,कदाचिच्छारीरवलादू घोरा अप्यमी न प्रभविष्यन्तीत्यत आह–'अबलं' बलविरहितं न मृत्युदायिनो मुहूर्तान् प्रति सामर्थ्यवत् ,किं तत् ?-शरीरम् , एवं तर्हि किं कृत्यमित्याह-'भारण्डपक्खीव चरऽप्पमत्तो'इति पतत्यनेनेति पक्षः सोऽस्यास्तीति पक्षी भारण्डश्चासौ पक्षी च भारण्डपक्षी स यद्वदप्रमत्तश्चरति तथा त्वमपि प्रमादरहितश्चर-विहितानुष्ठानमासेवख, अन्यथा हि यथाऽस्य भारण्डपक्षिणः पक्ष्यन्तरेण सहान्तर्वर्तिसाधारणचरणसम्भवात् स्वल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः तथा तवापि संयमजीविताद् भ्रंश एव प्रमाद्यत इति सूत्रार्थः ॥ ६॥ अमुमेवार्थ स्पष्टयन्नाह चरे पयाई परिसंकमाणो, जं किंचि पास इह मन्नमाणो। लाभंतरे जीविय वूहइत्ता, पच्छा परिणायमलावधंसी॥७॥ (सूत्रम्) व्याख्या-'चरेत्' गच्छेत् 'पदानि' पादविक्षेपरूपाणि 'परिशङ्कमानः' अपायं विगणयन् , किमित्येवमत आह'यत्किञ्चिद्' गृहस्थसंस्तवाद्यल्पमपि पाशमिव पाशं संयमप्रवृत्तिं प्रति स्वातन्त्र्योपरोधितया 'मन्यमानो' जानानः, यद्वा 'चरेदिति संयमाध्वनि यायात् , किं कुर्वन् ?-'पदानि' स्थानानि, धर्मस्येति गम्यते, तानि च मूलगुणादीनि Jain Education Inter n al For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458