Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 447
________________ 众% % % लवासं न मुंचंति ॥ १॥” यद्वा छन्दसा-गुर्वभिप्रायेण निरोधः-आहारादिपरिहाररूपः छन्दोनिरोधः तेनैवोक्तन्यायतो मुक्त्यवाप्तिः, तत्तद्वस्तुविषयाभिलाषात्मिका इच्छा वा छन्दः तन्निरोधेन मुक्तिः, तस्या एव तद्विवन्धकत्वात् , तथा च लौकिका अप्याहु:-"श्लोकार्धेन हि तद्वक्ष्ये, यदुक्तं ग्रन्थकोटिभिः । तृष्णा च सं(चेत्सं) परित्यक्ता, प्राप्तं च परमं पदम् ॥१॥" अथवा छन्दो वेद आगम इत्यनर्थान्तरं, ततः छन्दसा 'आणाए चिय चरण'मित्या|दिना निरोधः-इन्द्रियादिनिग्रहात्मकः छन्दोनिरोधः तेनोपैति मोक्षं, न तु सर्वथा जीवितं प्रत्यनपेक्षतया, तथा च समयविदः-"सर्वत्थ संजमं संजमातो अप्पाणमेव रक्खिजा। मुच्चइ अइवायातो पुणोऽवि सोही ण याविरती ॥१॥' अत्रोदाहरणमाह-अश्वो यथा 'शिक्षितो' वल्गनप्लवनधावनादिशिक्षा ग्राहितो वृणोति-आच्छादयति शरीरकमिति वर्म-अश्वतनुत्राणं तद्धरणशीलो वर्मधारी, शिक्षितश्चासौ वर्मधारी च शिक्षितवर्मधारी, अनेन शिक्षकतन्त्रतयाऽस्य खातन्त्र्यापोहमाह, ततोऽयमर्थः-यथाऽश्वः खातन्त्र्यविरहात्प्रवर्त्तमानः समरशिरसि न वैरिभिरुपहन्यत इति तन्मुक्तिमाप्नोति, खतन्त्रस्तु प्रथममशिक्षितो रणमवाप्तस्तैरुपहन्यते, अत्र च सम्प्रदायःजाएगणे रायणा दोण्हवि कुलपुत्ताणं दो आसा दिण्णा सिक्खावणपोसणत्थं, तत्थेगो कालोचिएण जवसजोगासणेणं । १ सर्वत्र संयम संयमात् आत्मानमेव रक्षेत् । मुच्यतेऽतिपातात् पुनरपि शुद्धिर्न चाविरतिः॥१॥२ एकेन राज्ञा द्वाभ्यामपि कुलपुत्राभ्यामश्वौ द्वौ दत्तौ शिक्षणपोषणार्थ, तत्रैकः कालोचितेन यवसयोगासनेन % % %众% % % dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 445 446 447 448 449 450 451 452 453 454 455 456 457 458