Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 450
________________ उत्तराध्य. इदमिहाकूतं-यो हि छन्दोनिरोधमुत्तरकालमेव करिष्यामीति वक्ति सोऽवश्यं शाश्वतवादी, स चैवं प्रज्ञाप्यते- असंस्कृता. यथा भद्र ! इदानीं भवतस्तत्कालात्पूर्वमसावुक्तहेतुतो न समस्ति, तथोत्तरकालमप्यसौ प्रमादिनस्तव न भवितेति, बृहद्वृत्तिः यदि वा एषा उपमेति-उपेत्युपयोगपूर्वक मेति ज्ञानमुपमा-सम्प्रधारणा यदुत पश्चाद्धर्म करिष्यामः इति शाश्व-|| सातवादिनां-निरुपक्रमायुषां, ये निरुपक्रमायुष्कतया शाश्वतमिवात्मानं मन्यन्ते तेषां युज्येतापि, न तु जलबुद्रु |दसमानायुषां, तथा चासावुत्तरकालमपि छन्दोनिरोधमनाप्नुवन् 'विषीदति' कथमहमकृतसुकृतः सम्प्रत्यनर्वाक्पारं भवाम्भोधि भ्राम्यन् भविष्यामीत्येवमात्मकं वैक्लव्यमनुभवति, कदा ?-शिथिलयति-आत्मप्रदेशान् मुञ्चति 'आयुषि' मनुष्यभवोपग्राहिण्यायुःकर्मणि, 'कालोवणीय'त्ति कालेन-मृत्युना खस्थितिक्षयलक्षणेन वा समयेनोदापनीतः-उपढौकितः तस्मिन् , क ? इत्याह-'शरीरस्य' औदारिककायात्मकस्य 'भेदे' सर्वपरिशाटतः पृथग्भावे, तदिदमैदम्पर्यम्-आदित एव न प्रमादवद्भिर्भाव्यं, तथा चाह-" गमनं किमद्य किं श्वः कदाऽपि वा सर्वथा ४ ध्रुवं वापि ? । इति जानन्नपि मूढस्तथापि मोहात्सुखं शेते ॥१॥” इति सूत्रार्थः ॥९॥ किं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभत इत्याह का॥२२४॥ खिप्पं न सक्केइ विवेगमेउं, तम्हा समुट्ठाय पहाय कामे । समेच्च लाभं समता महेसी, आयाणरक्खी चरमप्पमत्तो ॥ १० ॥(सूत्रम्) Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 448 449 450 451 452 453 454 455 456 457 458