Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२१७॥
| 'परिशङ्कमानो' मा ममेह प्रवर्त्तमानस्य मूलगुणेषु मालिन्यं स्खलना वा भविष्यतीति परिभावयन् प्रवर्त्तेत, 'जं किंचि' त्ति यत्किञ्चिदल्पमपि दुश्चिन्तितादि प्रमादपदं मूलगुणादिमालिन्यजनकतया बन्धहेतुत्वेन पाशमिव पाशं मन्यमानः, | तदयमुभयत्राभिप्रायः - यथा भारण्डपक्षी अपरसाधारणान्तर्वर्त्तिचरणतया पदानि परिशङ्कमान एव चरति यत्कि - | ञ्चिद्दवरकादिकमपि पाशं मन्यमानः तथाऽप्रमत्तश्चरेत्, ननु यदि परिशङ्कमानश्चरेत्तर्हि सर्वथा जीवित निरपेक्षेणैव प्रवर्त्तितव्यं, तत्सापेक्षतायां हि कदाचित्कथञ्चिदुक्तदोषसम्भव इत्याशङ्कयाह - 'लाभंतरे 'त्यादि वृत्तार्द्ध, लम्भनं लाभ:- अपूर्वार्थप्राप्तिः अन्तरं - विशेषः, लाभश्चासावन्तरं च लाभान्तरं तस्मिन् सतीत्यर्थः, किमुक्तं भवति ? - यावद्वि|| शिष्टविशिष्टतरसम्यग्ज्ञानदर्शन चारित्रावासिरितः सम्भवति तावदिदं 'जीवितं ' प्राणधारणात्मकं ' बृंहयित्वा' अन्नपानोपयोगादिना वृद्धिं नीत्वा तदभावे प्रायस्तदुपक्रमणसम्भवादित्थमुक्तं, 'खुहा पिवासा य वाही य'त्ति वचनात् क्षुदादीनामप्युपक्रमणकारणत्वेनाभिधानाद्, इह च बृंहयत्वेव बृहयित्वेति व्याख्येयम्, अन्यथा ह्यसंस्कृतं जीवितमिति विरुध्यत इति भावनीयं ततः किमित्याह- 'पश्चात् ' लाभविशेषप्रात्युत्तरकालं 'परिण्णाय'त्ति सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वत्सम्यग्दर्शनादिविशेषहेतुः, तथा च नातो निर्जरा, न हि जरया व्याधिना वा अभिभूतं तत् तथा| विधधर्माधानं प्रति समर्थम्, उक्तं हि - "जैरा जाव ण पीलेति,वाही जाव ण वडति । जाविंदिया ण हायंति, ताव १ जरा यावन्न पीडयति व्याधिर्यावन्न वर्धते । यावदिन्द्रियाणि न हीयन्ते, तावद्धर्मं समाचरेत् ॥ १ ॥
Jain Education International
For Personal & Private Use Only
असंस्कृता.
४
॥२१७॥
www.jainelibrary.org

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458