Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 405
________________ व्याख्या-आह-नित्यत्वात्क्षेत्रस्य करणं न संगच्छते तत्कथं क्षेत्रकरणसम्भवः १, उच्यते, न विनाऽऽकाशेन 'क्रियते' निर्वय॑ते 'यदिति यस्मात् 'किञ्चिदपि' अल्पमपि द्यणुकस्कन्धादि, अतस्तत्प्राधान्याद् द्रव्यकरणमपि क्षेत्रकरणमुच्यते इत्युपस्कारः, ननु यद्याकाशेन विना न किञ्चित् क्रियते तदाऽऽकाशकरणतैवास्तु कथं क्षेत्रकरणता ?, उच्यते, 'क्षेत्रम्' इति क्षेत्रशब्दवाच्यमाकाशं, तथा च पर्यायशब्दत्वादनयोरित्थमभिधानमदुष्टमेवेति भावः, ४|तच व्यअनं-शब्दस्तस्य पर्यायः-अन्यथा च भवनं व्यञ्जनपर्यायः तमापन्नं-प्राप्त व्यञ्जनपर्यायापन्नम् , 'उच्छुकरण माइयंति प्रक्रमान्मकारस्य चागमिकत्वादिक्षुक्षेत्रकरणादिकं 'बहुधा' बहुप्रकारम् , एकत्वेऽपि क्षेत्रस्येक्षुक्षेत्रकरणा-14 दिरूपेणाभिलापस्य बहुप्रकारत्वात् , तथा च सम्प्रदायः-वंजणपरियावन्नं णाम जं खेत्तंति अभिलप्पति तंजहा उच्छुखेतकरणं सालिखेत्तकरणं तिलखित्तकरणं एवमादि' अथवा यस्मिन् क्षेत्रे करणं क्रियते वय॑ते वा तत् क्षेत्रकरण|मिति गाथार्थः ॥ १९६ ॥ इदानीं कालकरणमाह कालो जो जावइओ जं कीरइ जमिजंमि कालंमि। ओहेण नामओ पुण हवंति इक्कारसकरणा॥१९७॥ * व्याख्या-कालो 'यः' समयादिर्यावत्परिमाणः यत्करणनिष्पत्तावपेक्षाकारणत्वेन व्याप्रियते, किमुक्तं भवति?यस्य भोजनार्यावता घटिकाद्वयादिना कालेन निष्पत्तिस्तस्य स एव कालः करणं, तस्यैव तत्र साधकतमत्वेन १ व्यञ्जनपर्यायापन्नं नाम यत्क्षेत्रमित्यमिलप्यते, तद्यथा-इक्षुक्षेत्रकरणं शालिक्षेत्रकरणं तिलक्षेत्रकरणमेवमादि । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458