Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri,
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
उत्तराध्य.
बृहद्वृत्तिः
॥२०५॥
तेन पञ्चदशविध योजनाकरणं, योजयति बेतत्पञ्चदशविधमपि कर्मणा सहात्मानमिति, आह च-"मणवयणकाय- असंस्कृता. किरिया पन्नरसविहा उ झुंजणाकरण"मिति गाथार्थः ॥ २०४ ॥ येन करणेनात्र प्रकृतं तदाहकम्मगसरीरकरणं आउअकरणं असंखयं तं तु । तेणऽहिगारो तम्हा उ अप्पमाओ चरित्तमि ॥२०५॥
व्याख्या-'कर्मकशरीरकरणं' कार्मणदेहनिर्वर्तनं, तदपि ज्ञानावरणादिभेदतोऽनेकविधमित्याह-'आयुःकरट्राणम्' इति आयुषः-पञ्चमकर्मप्रकृत्यात्मकस्य करणं-निर्वर्तनमायुःकरणं, तत्किमित्याह-'असंखयं तं तु'त्ति तत्पुनरायुःकरणमसंस्कृतं-नोत्तरकरणेन त्रुटितमपि पटादिवत्सन्धातुं शक्यं, यतः-"हा तुहा व इहं पडमादी संधयंति
यणिउणा । सा कावि णत्थि णीई संधिजइ जीवियं जीए ॥१॥” एवं च 'खरूपतो हेतुतो विषयतश्च व्याख्ये ति
खरूपतो हेतुतश्च 'उत्तरकरणेण कय मित्यादिना ग्रन्थेन व्याख्यातम् , अनेन त्वायुष्ककरणस्यासंस्कृतत्वोपदशेनेन। है विषयतः, इदानीं तूपसंहारमाह-'तेणऽहिगारों त्ति 'तेने त्यायुःकर्मणाऽसंस्कृतेनाधिकारः, 'तम्हा उत्ति तस्मात्र
तुशब्दोऽवधारणार्थः, तस्य च व्यवहितः सम्बन्धः, ततोऽयमर्थः यस्मादसंस्कृतमायुःकर्म तस्मात् 'अप्रमाद एव' प्रमादाभाव एव, 'चरित्र' इति चरित्रविषयः कर्तव्य इति गाथार्थः ॥ २०७॥ एवं च व्याख्यातं संस्कृतम्,
॥२०५॥ १ मनोवचनकायक्रिया पञ्चदशविधं तु योजनाकरणम् । २ स्फुटितात्रटिता वा इह पटादयः संधति नयनिपुणाः । सा काचिन नास्ति नीतिः संधीयते जीवितं यया ॥१॥
For Personal & Private Use Only
in Education International
www.jainelibrary.org

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458