Book Title: Uttaradhyayansutram Part 01
Author(s): Vadivetal, Shantisuri, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ उभयत्र सूत्रत्वादेकवचनं, 'कम्' अर्थ प्रक्रमात् त्राणं, नु इति वितर्के, विविधम्-अनेकधा हिंस्रा-हिंसनशीलाः,13 आर्षत्वाद्वा वीति-विश्रब्धान् खेषु वेषूत्पत्तिस्थानेष्वनाकुलमवस्थितान् जन्तून् हिंसन्तीति विहिंसाः, तथा अयताःतत्तत्पापस्थानेभ्योऽनुपरताः 'गहिन्ति'त्ति सूत्रत्वाद् गमिष्यन्ति, ग्रहीष्यन्ति वा-स्वीकरिष्यन्ति, किमुक्तं भवति?एवमेतेप्रमत्तादिविशेषणान्विता जनाः खकृतैरीग्भिः कर्मभिर्नरकादिकमेव यातनास्थानं गमिष्यन्ति ग्रहीष्यन्ति वा,॥ यद्वैवं नीयते-असंस्कृतं जीवितमिति मा प्रमादीरित्यादि (दौ) गुरुणोक्ते कदाचिच्छिष्यो वदेत-बहुरयं जनः प्रमत्तः, तद्वदहमपि भविष्यामीत्याशङ्कय गुरुराह-भद्र ! एवं जानीहि जनः प्रमत्तो विहिंस्रोऽयतः 'कन्नुत्ति कामप्यवक्तव्यां । नरकादिगतिमसौ गमिष्यति ग्रहीष्यति वा, अतः किं तव विवेकिन एवंविधजनव्यवहाराश्रयणेन ?, सूत्रत्वाच्चै-II कत्वेऽपि बहुवचनमिति सूत्रार्थः ॥ १॥ असंस्कृतं जीवितमित्युक्तम् , अतस्तदू व्याचिख्यासुराह नियुक्तिकृत्उत्तरकरणेण कयं जं किंची संखयं तु नायवं । सेसं असंखयं खलु असंखयस्सेस निज्जुत्ती ॥ १८२॥ ___ व्याख्या-मूलतः खहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मकं करणमुत्तरकरणं तेन कृतं-निवर्तितं, 'यत्किञ्चिदि'त्यविवक्षितघटादि, यत्तदोर्नित्यमभिसम्बन्धात् तत् संस्कृतं, तुः अवधारणे, स चैवं योज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यं, 'शेषम्' अतोऽन्यत्संस्कारानुचितं विदीर्णमुक्ताफलोपममसंस्कृतमेव, खलुशब्दस्यैवकारार्थत्वात् , असंस्कृतमित्यस्य सूत्रावयवस्य 'एषा' वक्ष्यमाणलक्षणा नियुक्तिः, बहुवक्तव्यतया च प्रतिज्ञानम् , Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458