________________
उभयत्र सूत्रत्वादेकवचनं, 'कम्' अर्थ प्रक्रमात् त्राणं, नु इति वितर्के, विविधम्-अनेकधा हिंस्रा-हिंसनशीलाः,13 आर्षत्वाद्वा वीति-विश्रब्धान् खेषु वेषूत्पत्तिस्थानेष्वनाकुलमवस्थितान् जन्तून् हिंसन्तीति विहिंसाः, तथा अयताःतत्तत्पापस्थानेभ्योऽनुपरताः 'गहिन्ति'त्ति सूत्रत्वाद् गमिष्यन्ति, ग्रहीष्यन्ति वा-स्वीकरिष्यन्ति, किमुक्तं भवति?एवमेतेप्रमत्तादिविशेषणान्विता जनाः खकृतैरीग्भिः कर्मभिर्नरकादिकमेव यातनास्थानं गमिष्यन्ति ग्रहीष्यन्ति वा,॥ यद्वैवं नीयते-असंस्कृतं जीवितमिति मा प्रमादीरित्यादि (दौ) गुरुणोक्ते कदाचिच्छिष्यो वदेत-बहुरयं जनः प्रमत्तः, तद्वदहमपि भविष्यामीत्याशङ्कय गुरुराह-भद्र ! एवं जानीहि जनः प्रमत्तो विहिंस्रोऽयतः 'कन्नुत्ति कामप्यवक्तव्यां । नरकादिगतिमसौ गमिष्यति ग्रहीष्यति वा, अतः किं तव विवेकिन एवंविधजनव्यवहाराश्रयणेन ?, सूत्रत्वाच्चै-II कत्वेऽपि बहुवचनमिति सूत्रार्थः ॥ १॥ असंस्कृतं जीवितमित्युक्तम् , अतस्तदू व्याचिख्यासुराह नियुक्तिकृत्उत्तरकरणेण कयं जं किंची संखयं तु नायवं । सेसं असंखयं खलु असंखयस्सेस निज्जुत्ती ॥ १८२॥ ___ व्याख्या-मूलतः खहेतुभ्य उत्पन्नस्य पुनरुत्तरकालं विशेषाधानात्मकं करणमुत्तरकरणं तेन कृतं-निवर्तितं, 'यत्किञ्चिदि'त्यविवक्षितघटादि, यत्तदोर्नित्यमभिसम्बन्धात् तत् संस्कृतं, तुः अवधारणे, स चैवं योज्यते-यदुत्तरकरणकृतं तदेव संस्कृतं ज्ञातव्यं, 'शेषम्' अतोऽन्यत्संस्कारानुचितं विदीर्णमुक्ताफलोपममसंस्कृतमेव, खलुशब्दस्यैवकारार्थत्वात् , असंस्कृतमित्यस्य सूत्रावयवस्य 'एषा' वक्ष्यमाणलक्षणा नियुक्तिः, बहुवक्तव्यतया च प्रतिज्ञानम् ,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org