SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. बृहद्वृत्तिः ॥१९४॥ | अथवा यथाऽऽचारपञ्चमाध्ययनस्य 'आवन्ती' त्यादानपदेन नाम तथा अस्याप्यसंस्कृतमिति नाम, ततश्चासंस्कृतनानोऽस्यैवाध्ययनस्यैषा नामनिष्पन्न निक्षेपनिर्युक्तिस्तत्प्रस्ताव एव व्याख्यातव्येति गाथार्थः ॥ १८२ ॥ सम्प्रति संस्कृतप्रतिषेधादसंस्कृतं विज्ञायत इति संस्कृतशब्दस्य निक्षेपो वाच्यः, तत्र च यद्यपि समित्युपसर्गोऽप्यस्ति तथाऽपि | धात्वर्थद्योतकत्वात्तस्य करणस्यैव चात्र धात्वर्थात्तदेव निक्षेप्तुमाह नियुक्तिकृत् — | नामंठवणाकरणं खित्ते काले तहेव भावे य । एसो खलु करणंमी णिक्खेवो छविहो होइ ॥ १८३ ॥ व्याख्या - नाम स्थापना द्रव्यं क्षेत्रं कालः 'तथैवे 'ति तेनैव वस्तुरूपतालक्षणेन प्रकारेण 'भावे यत्ति भावश्च, | एष एव - अनन्तरोक्तः, खलुशब्दस्यैवकारार्थत्वात् 'करणे' करणविषये 'निक्षेपो' न्यासः षड्विधो भवति, किमुक्तं भवति ? - नामकरणादिभेदेन निक्षिप्यमाणं पविधमेव करणं भवतीति गाथार्थः ॥ १८३ ॥ तत्र च नामकरणं करणमिति नामैव नानो वा करणं नामकरणं- प्रियङ्करशुभङ्कराद्य भिधानाधानं, यदिवा नामतः करणं नामकरणं, यत्पूज्यनामापेक्षया पूजादिविधानं, स्थापनाकरणम् - अक्षनिक्षेपादि, यो वा यस्य करणस्याकारः, तथा च भाष्यकृत् - "णामं णामस्स व णामतो य करणंति णामकरणंति । ठवणाकरणं नासो करणागारो य जो जस्स ॥ १ ॥ " द्रव्यकरणं तु द्रव्यमेव क्रियत इति करणं, कृत्यल्युटोऽप्यन्यत्रापीति ( कृत्यल्युटो बहुलम् पा० ३-३-१३३ ) कर्म्मण्यपि १ नाम नाम्नो वा नामतश्च करणमिति नामकरणमिति । स्थापनाकरणं न्यासः करणाकारश्च यो यस्य ॥ १ ॥ Jain Education International For Personal & Private Use Only असंस्कृता. ४ ॥१९४॥ www.jainelibrary.org
SR No.600234
Book TitleUttaradhyayansutram Part 01
Original Sutra AuthorVadivetal, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages458
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy