________________
ल्युटो दर्शनात् , भावसाधनपक्षे तु द्रव्येण द्रव्यस्य द्रव्ये वा यथासम्भवं क्रियात्मकं करणं, तथा चाह-तं तेणं |तस्स तंमि व संभवतो उ किरिया मया करणं । दवस्स व दवेण व दवमि व दबकरणंति ॥१॥” तचागमनो
आगमभेदतो द्विधा, तत्रागमतो ज्ञाता तत्र चानुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्रिधा, तत्र ज्ञशरीरभव्यशरीरद्रव्यकरणे प्रतीते एवेत्यनादृत्य तद्व्यतिरिक्तमाहदवकरणं तु दुविहं सन्नाकरणं च नोय सन्नाए । कडकरणमट्टकरणं वेलूकरणं च सन्नाए ॥ १८४॥
___ व्याख्या-द्रव्यकरणं, तुशब्दो नोआगमत इदमिति विशेषद्योतकः, 'द्विविधं' द्विप्रकारं संज्ञाकरणं च दाणो य सण्णाए'त्ति करणमिति प्रक्रमात् , चशब्दो भिन्नक्रमः, ततश्च नोसंज्ञाकरणं च । तत्र संज्ञाकरणमाह
कटकरणं' कटनिवर्तकं चित्राकारमयोमयं पाइलगादि, 'अर्थकरणम्' अर्थाभिनिवर्तकमधिकरण्यादि येन द्रम्मादि निष्पाद्यते, अर्थार्थ वा करणमर्थकरणं यत्र राज्ञोऽर्थाश्चिन्त्यन्ते, अर्थ एव वा तेस्तैरुपायैः क्रियत इत्यर्थकरणं, वेलुकरणं च रूतपूणिकानिवर्तकं चित्राकारमयं वेणुशलाकादि, 'संज्ञायां' संज्ञाकरणे, आह-नामकरणसंज्ञाकरणयोः कः प्रतिविशेषो ?, न हि नामसंज्ञाशब्दयोरर्थान्तरविषयत्वमुत्पश्यामः, उच्यते, इह नामकरणं करणमित्यभिधानमात्रं, संज्ञाकरणं तु यत्रान्वर्थोऽस्ति, संज्ञाकरणेषु हि कटकरणादिषु क्रियतेऽनेनेति करणमि
१ तत्तेन तस्य तस्मिन्वा संभवतस्तु क्रिया मता करणम् । द्रव्यस्य वा द्रव्येण वा द्रव्ये वा द्रव्यकरणमिति ॥ १ ॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org