Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 375
________________ कामध्य० ३३ उचराध्यवनस्त्रम् ॥३७॥ 18७॥ पदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य 'दर्शने' दर्शनविषयस्य ॥४॥ चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानमपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कषायाः-क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुच्चये, नोकषायमिति प्रकमानोकषायवेदनीयं । तत्र नोकषायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वद्यते । तथैव चेति समुच्चये ॥१०॥ अनयोर्भेदानाह–'सोलसविहत्ति" षोडशविधं भेदेन कर्म 'तु' पुनः कषायजं "जं वेअइ तं बंधइत्ति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यान संज्वलनभेदाच्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म 'नोकषायज' नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक एवेति । नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ॥ ११॥ . मूलम-नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउव्विहं ॥१२॥ ____ व्याख्या-"नेरइअतिरिक्खाउंति" आयुः शब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेषं व्यक्तम् ॥ १२ ॥ मूलम्-नामकम्मं तु दुविहं, सुहं असुहं च आहिअं । सुहस्स य बहू भेया, एमेव असुहस्सवि ॥१३॥ ___ व्याख्या-नामकर्म द्विविध, कथमित्याह-शुभमशुभं च आख्यातं, शुभस्य बहवो मेदा एवमेवाशुभस्यापि । तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भदा यथा-नर १ देवगती २ पञ्चेन्द्रियजातिः ३ शरीरपश्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथम संस्थानं १६ संहननं च १७ मनुष्य १८ देवानुपूज्यौ १६ अगुरुलघु २० पराघातं २१ उच्छ्वासं २२ आतपो २३ इद्योतौ २४ प्रशस्तविहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २६ स्थिर ३० शुभ ३१ AVG coverevereSVGEVEG

Loading...

Page Navigation
1 ... 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456