Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala

View full book text
Previous | Next

Page 379
________________ उतराध्य यनसूत्रम् ॥१०१॥ व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोत्यः 'उकोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्तं जघन्यैव जघन्यका ॥ १६ ॥ केषामित्याह - 'आवरखिज्जाणत्ति' आवरणयोर्ज्ञानदर्शनविषययोर्द्वयोरपि वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्त्त - माना सा सकषायस्योच्यते । यदुक्तं- "मोत्तु' अकसायठिहं, बारमुहुत्ता जहन्नवेअणिएत्ति" । अकषायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिवोक्ता, तदत्र तत्त्वं तत्वविदो विदन्तीति ॥ २० ॥ स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाह - सिद्धनामनन्तभागे 'अनुभागा' रसविशेषा भवन्ति, 'तुः' पूर्वौ, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्धया विभज्यमानास्तद विभागैकदेशास्तेषामग्रं - परिमाणं प्रदेशाग्रं 'सन्त्रजीवेस इच्छिति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह - मूलम् — तम्हा एएसि कम्माणं, अणुभागे विचाणि । एएसिं संवरे चेव, खवणे अजए बुहेत्ति बेमि २५ व्याख्या—यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्व 'विज्ञाय' विशेषेण कटुविपा. कत्वलचणेन भवहेतुत्वलक्षणेन च ज्ञात्रा एतेषां कर्मणामनुपात्तानां 'संवरे' निरोधे, 'च: ' समुच्चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, 'क्षपणे च' पूर्वोपात्तानां निर्जरणे 'जएत्ति' यतेतैव यत्नं कुर्यादेव 'बुधो' धीमानिति सूत्रार्थः ||२५|| इति ब्रवीमीति प्राग्वत् २ अध्य० ३३ ॥१०१॥

Loading...

Page Navigation
1 ... 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456