Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उचराध्य
KEE CG CE
यनसूत्रम्
अध्य• ३६
॥१६२॥
॥१६२॥
ereܬܦܦܕܦܒܟܦܢ
मिच्छादसणरत्ता, सनिाणा कण्हलेसमोगाढा । इन जे मरति जीवा, तेसिं पुण दुल्लहा बोही ॥ व्याख्या-'कंदप्पति' कन्दर्पभावना' एवमाभियोग्यभावना' किल्विषभावना मोहभावनाआसुरभावना' च, एता भावना हेतुत्वात् दुर्गतय एतद्विधातृणां दुर्गतिरूपेषु तथाविधदेवनिकायेष्वेवोत्पादात्, 'मरणे' मरणकाले विराधिका भवन्ति सम्यग्दर्शनादीनामिति गम्यते, इह च मरण इत्यभिधानं पूर्वमेतत्सत्तायामपि प्रान्तकाले शुभभावनाभावे सुगतिरपि स्यादिति सूचनार्थम् ॥ २५४ ॥ मिथ्यादर्शनम्-अतत्त्वे तत्वाभिनिवेशस्तत्र रक्ताः-आसक्ता मिथ्यादर्शनरक्ताः सनिदानाः कृतभोगप्रार्थनाः 'हुः' पूत्तौं 'हिंसकाः' जीवोपमईकारिण इतीत्येवंरूपा ये नियन्ते जीवास्तेषां पुनदुर्लभा 'बोधिः' जिनधर्मावाप्तिः ॥ २५५ ।। "सुक्कलेसमोगाढत्ति" शुक्ललेश्यामवगाढा:-प्रविष्टाः ॥ २५६ ।। स्पष्टम् , ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, नैवं विशेषज्ञापकत्वादस्य, विशेषश्चायं-तादृशे संक्लेशे सत्येव दुर्लभबोधित्वं, सामान्येन तु पूर्वोक्तविशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिलाभो दृश्यतेऽपीति विशेषसूचकत्वादस्य न पौनरुक्त्यम् । इह चायेन सूत्रे ण कन्दर्पादिभावनानां दुर्गतिरूपानर्थस्य हेतुत्वमुक्तं, अर्थाच्छुभभावनानां च सुगतिरूपार्थस्य । द्वितीयेन मिथ्यात्वरक्तादीनां दुर्लभबोधित्वमनर्थ उक्तः, तृतीयेन सम्यक्त्वरक्तानां सुलभबोधित्वं शुभार्थः, चतुर्थेन तूक्तरूपो विशेषःरचित इति सूत्रचतुष्कार्थः ॥ २५७ ॥ जिनवचनाराधनमूलमेव संलेखनादि श्रेयस्ततोऽन्वयव्यतिरेकाम्यां तन्माहात्म्यमाहमूलम्-जिणवयणे अणुरत्ता, जिणवयणं जे करिति भावेणं । अमला असंकिलिट्ठा, ते होति परित्तसंसारी बालमरणाणि बहुसो, अकाममरणाणि चेव ब आणि। मरिहंति ते वराया, जिणवयणं जे न याति २५६
EGGGEOGGeeeeeeeeeeee

Page Navigation
1 ... 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456