________________
उतराध्य
यनसूत्रम्
॥१०१॥
व्याख्या - उदधिना सदृशं नाम येषां तानि उदधिसदृशनामानि सागरोपमाणीत्यर्थः, तेषां त्रिंशत्कोटाकोत्यः 'उकोसिअत्ति' उत्कृष्टा भवति स्थितिः, अन्तर्मुहूर्तं जघन्यैव जघन्यका ॥ १६ ॥ केषामित्याह - 'आवरखिज्जाणत्ति' आवरणयोर्ज्ञानदर्शनविषययोर्द्वयोरपि वेदनीये तथैव च, अन्तराये च कर्मणि स्थितिरेषा व्याख्याता । किञ्चेह वेदनीयस्यापि जघन्या स्थितिरन्तर्मुहूर्त्तमानैवोक्ताऽन्यत्र तु द्वादशमुहूर्त्त - माना सा सकषायस्योच्यते । यदुक्तं- "मोत्तु' अकसायठिहं, बारमुहुत्ता जहन्नवेअणिएत्ति" । अकषायस्य तु समयद्वयरूपा सातवेद्यस्य स्थितिरिवोक्ता, तदत्र तत्त्वं तत्वविदो विदन्तीति ॥ २० ॥ स्पष्टानि ॥ २१ ॥ २२ ॥ २३ ॥ अथ भावमाह - सिद्धनामनन्तभागे 'अनुभागा' रसविशेषा भवन्ति, 'तुः' पूर्वौ, अयञ्चानन्तभागोऽनन्तसंख्य एवेति । तथा सर्वेष्वपि प्रक्रमादनुभागेषु प्रदिश्यन्त इति प्रदेशा बुद्धया विभज्यमानास्तद विभागैकदेशास्तेषामग्रं - परिमाणं प्रदेशाग्रं 'सन्त्रजीवेस इच्छिति' सर्वजीवेभ्योऽतिक्रान्तं, ततोपि तेषामनन्तगुणत्वादिति सूत्रनवकार्थः ॥ २४ ॥ अध्ययनार्थोपसंहारपूर्वमुपदेशमाह -
मूलम् — तम्हा एएसि कम्माणं, अणुभागे विचाणि । एएसिं संवरे चेव, खवणे अजए बुहेत्ति बेमि २५
व्याख्या—यस्मादेवंविधाः प्रकृतिबन्धादयस्तस्मादेतेषां कर्मणामनुभागानुपलक्षणत्वात् प्रकृतिबन्धादींश्व 'विज्ञाय' विशेषेण कटुविपा. कत्वलचणेन भवहेतुत्वलक्षणेन च ज्ञात्रा एतेषां कर्मणामनुपात्तानां 'संवरे' निरोधे, 'च: ' समुच्चये एवोऽवधारणे भिन्नक्रमः सोऽग्रतो योक्ष्यते, 'क्षपणे च' पूर्वोपात्तानां निर्जरणे 'जएत्ति' यतेतैव यत्नं कुर्यादेव 'बुधो' धीमानिति सूत्रार्थः ||२५|| इति ब्रवीमीति प्राग्वत्
२ अध्य० ३३ ॥१०१॥