Book Title: Uttaradhyayanani Part 03 And 04
Author(s): Bhavvijay Gani, Harshvijay
Publisher: Vinay Bhakti Sundar Charan Granthmala
View full book text
________________
उत्तराध्ययनसूत्रम् ॥१३॥
अध्य०३६ ॥१३७॥
ANDADADAAAAAA
न्द्रियोच्छवासवाग्मनोनिष्पत्तिहेतुदलिक पर्याप्तिस्तद्वन्तः पर्याप्ताः, तद्विपरीता अपर्याप्ताः, एवमेते सूक्ष्मा बादराश्च प्रत्येकं द्विधा पुनः ॥७॥ पुनरेषामेवोत्तरभेदानाह-"सएहत्ति" श्लक्ष्णा चूर्णितलोष्टुकल्या मृदु पृथिवी तदात्मका जीवा अप्युपचारतः श्लक्ष्णा एवमुत्तरत्रापि, खरा कठिना ॥ ७१ ॥ सप्तविधत्वमेवाह-कृष्णा नीला 'रुहिरत्ति' रक्ता हारिद्रा शुक्ला 'पंडुत्ति' पाण्डुः पाण्डुरा ईषच्छुक्लत्ववतीत्यर्थः, इत्थं वर्णभेदेन षड्विधत्वमुक्तं, इह च पाण्डुरग्रहणं कृष्णादिभेदानामपि स्वस्थाने भेदान्तरसम्भवसूचकम् । पनकोऽत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृवित्वेनारूढत्वाभेदेनोपादानम् । खरा पृथ्वी 'षट्त्रिंशद्विधा' षट्त्रिंशभेदा ॥ ७२ ॥ तानेवाह-'पृथिवी' शुद्धपृथिवी १ 'शर्करा' लघूपलशकलरूपा २ वालुका प्रतीता ३ 'उपलो' गण्डशैलादिः ४ शिला च बट्टा दृषत् ५ 'लवणं' समुद्रलवणादि ६ 'ऊरः' ७ क्षारमृत्तिका ८ अयस्ताम्र इत्रपुक १० सीसक ११ रूप्य १२ सुवर्णानि १३ प्रतीतानि, 'वज' हीरकः १४ ॥ ७३ ॥ हरितालादयः प्रतीताः, 'सासको' धातुविशेषः, अञ्जनं, 'प्रवालं' विद्रुमं, 'अभ्रपटलम्' अभ्रक, 'अभ्रवालुका' अभ्रपटलमिश्रा वालुका । बादरकाये' बादरपृथ्वीकायेऽमी भेदाः। 'मणिविहाणत्ति' चस्य गम्यत्वान्मणिविधानानि च मणि
भेदाः ॥ ७४ ॥ मणिभेदानाह-इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेदकादयश्च क्वचित्कथञ्चित्कस्यचिदन्तर्भावाच्चतुर्दशे| त्यामी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रनवकार्थः ।। ७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथ्वीकायिकानाहमूलम्-एते खरपुढवीए, भेा छत्तीसमाहिआ। एगविहमनाणत्ता, सुहमा तत्थ विआहिआ ॥७॥
सुहुमा य सव्वलोगंमि, लोगदेसे अ बायरा । एत्तो कालविभागं तु, तेसिं वोच्छं चउव्विहं ॥७८॥ संतई पप्पऽणाईआ, अपज्जवसिावि अ । ठिई पडुच्च साईआ, सपज्जवसिआ वि अ॥७॥

Page Navigation
1 ... 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456