________________
कामध्य० ३३
उचराध्यवनस्त्रम् ॥३७॥
18७॥
पदेशः । एतास्तिस्रः प्रकृतयो मोहनीयस्य 'दर्शने' दर्शनविषयस्य ॥४॥ चरित्रे मुह्यत्यनेनेति चरित्रमोहनं कर्म, येन जानमपि चारित्रफलादि न तत् प्रतिपद्यते, तत्तु द्विविधं व्याख्यातं । द्वैविध्यमेवाह-कषायाः-क्रोधाद्यास्तद्रूपेण वेद्यतेऽनुभूयते यत्तत्कषायवेदनीयं, चः समुच्चये, नोकषायमिति प्रकमानोकषायवेदनीयं । तत्र नोकषायाः कषायसहचारिणो हास्यादयस्तद्रूपेण यद्वद्यते । तथैव चेति समुच्चये ॥१०॥ अनयोर्भेदानाह–'सोलसविहत्ति" षोडशविधं भेदेन कर्म 'तु' पुनः कषायजं "जं वेअइ तं बंधइत्ति" वचनात् कषायवेदनीयमित्यर्थः, षोडशभेदत्वं चास्य क्रोधादीनां चतुर्णामपि प्रत्येकमनन्तानुवन्ध्यप्रत्याख्यानप्रत्याख्यान संज्वलनभेदाच्चतुर्विधत्वात् । 'सत्तविहत्ति' सप्तविधं नवविधं वा कर्म 'नोकषायज' नोकषायवेदनीयमित्यर्थः, तत्र सप्तविधं हास्यादिषट्कं हास्यरत्यरतिभयशोकजुगुप्सारूपं वेदश्च सामान्यविवक्षया एक एवेति । नवविधं तु तदेव षट्कं वेदत्रयसहितमिति ॥ ११॥ . मूलम-नेरइयतिरिक्खाउं, मणुस्साउं तहेव य । देवाउअं चउत्थं तु, आउकम्मं चउव्विहं ॥१२॥ ____ व्याख्या-"नेरइअतिरिक्खाउंति" आयुः शब्दस्य प्रत्येकं योगान्नैरयिकायुस्तिर्यगायुः, शेषं व्यक्तम् ॥ १२ ॥ मूलम्-नामकम्मं तु दुविहं, सुहं असुहं च आहिअं । सुहस्स य बहू भेया, एमेव असुहस्सवि ॥१३॥ ___ व्याख्या-नामकर्म द्विविध, कथमित्याह-शुभमशुभं च आख्यातं, शुभस्य बहवो मेदा एवमेवाशुभस्यापि । तत्रोत्तरभेदैः शुभनाम्नोऽनन्तभेदत्वेपि मध्यमविवक्षया सप्तत्रिंशद्भदा यथा-नर १ देवगती २ पञ्चेन्द्रियजातिः ३ शरीरपश्चकं ८ आद्यशरीरत्रयस्याङ्गोपाङ्गत्रयं ११ प्रशस्तं वर्णादिचतुष्कं १५ प्रथम संस्थानं १६ संहननं च १७ मनुष्य १८ देवानुपूज्यौ १६ अगुरुलघु २० पराघातं २१ उच्छ्वासं २२ आतपो २३ इद्योतौ २४ प्रशस्तविहायोगतिः २५ त्रस २६ बादर २७ पर्याप्त २८ प्रत्येक २६ स्थिर ३० शुभ ३१
AVG coverevereSVGEVEG