________________
उत्तराध्यपनसूत्रम् ॥४८॥
अध्य०३३ ॥८॥
सुभग ३२ सुस्वरा ३३ देय ३४ यशांसि ३५ निर्माणं ३६ तीर्थकरनाम ३७ चेति । एताश्च शुभानुभावत्वाच्छुभाः। तथा अशुभनाम्नो- पि मध्यमविवक्षया चतुस्त्रिंशद्भदास्तथाहि-नरक १ तिर्यग्गती २ एकेन्द्रियादिजातिचतुष्कं ६ प्रथमवर्जानि संहननानि पञ्च ११ संस्थानान्यपि प्रथमवर्जानि पंचैव १६ अप्रशस्तं वर्णादिचतुष्कं २० नरक २१ तिर्यगानुपूज्यौं १२ उपघातः २३ अप्रशस्तविहायोगतिः २४ वसदशकविपर्यस्तं स्थावरदशकं ३४ । एतानि चाशुभानां नारकत्वादीनां हेतुत्वादशुभानि । अत्र बन्धनसंघातनानि शरीरेभ्यो वर्णाद्यवान्तरमेदाश्च वर्णादिभ्यः पृथग्न विवक्ष्यन्ते इति नोक्तसंख्याविरोधः ॥१३॥ मूलम-गोअकम्मं दुविहं, उच्चं नीअंच आहिनं। उच्च अट्टविहं होइ, एवं नीअंपि आहिअं ॥१४॥
व्याख्या-गोत्रकर्म द्विविधं, उच्चमिक्ष्वाकुवंशादिव्यपदेशहेतु, नीचं तद्विपरीतमाख्यातं । तत्रोच्चमुच्चैर्गोत्रमष्टविधं भवति, एवमष्टविघं शा नीचमप्याख्यातं । अष्टविधत्वं चानयोर्बन्धहेतूनामष्टविधत्वात् । अष्टौ हि जातिमदाभावादयंउच्चैोत्रस्य बन्धहेतवः, तावन्त एव च जातिमदादयो नीचेर्गोत्रस्येति ॥ १४ ॥ मूलम-दाणे लाभे अ भोगे अ, उवभोगे वीरिए तहा । पंचविहमंतराय, समासेण विआहि ॥१५॥
- व्याख्या 'दाने' देयवस्तुवितरणरूपे, 'लामे च प्रार्थितवस्तुप्राप्तिरूपे, 'भोगे च' सकृदुपभोग्यपुष्पादिविषये, 'उपभोगे पुनः पुन| रुपभोग्यगृहस्त्र यादिविषये, वीर्ये पराक्रमे तथा । अन्तरायमिति प्रक्रमः, ततश्च विषयभेदात् पञ्चविधमन्तरायं समासेन व्याख्यातं । तत्र
दानान्तरायं समासेन येन सति पात्रे देये च वस्तुनि जानन्तोपि दानफलं तत्र प्रवृत्तिर्न स्यात् १ । लाभान्तरायं तु येन भव्येपि दातरि याचादक्षेपि याचके लाभो न स्यात् २ । भोगान्तरायं तु येन सम्पद्यमानेप्याहारमाल्यादौ भोक्तुं न शक्नोति ३। उपभोगान्तरायं तु
AVENGE OVER COVEVAVAVAVE
L