SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य बनसूत्रम् 1880 अध्य० ३३ IEEII BREGI येन सदपि वस्त्राङ्गनादि नोपभोक्तु प्रभवति ४ । वीर्यान्तरायं तु यतो नीरोगो वयःस्थोपि तृणकुब्जीकरणेपि न क्षमते ५। इति सूत्रचतु- दशकार्थः ॥१५॥ एवं प्रकृतयोऽभिहिताः, सम्प्रत्येतभिगमनायोत्तरग्रन्थसम्बन्धाय चाहमूलम्-एआओ मूलप्पयडीओ, उत्तराओ अ आहिआ। पएसग्गं खेत्तकाले अ, भावं चादुत्तरं सुण ॥१६॥ व्याख्या-एता मूलप्रकृतय 'उत्तराश्चेति' उत्तरप्रकृतयश्च आख्याताः । प्रदेशा:-परमाणवस्तेषामग्रं-परिमाणं प्रदेशाग्रं. 'खेत्तकाले अत्ति' क्षेत्रकालो च, 'भावं च'अनुभागलक्षणं कर्मणः पर्यायं चतुःस्थानिकादिरसमित्यर्थः, 'अत उत्तरमिति' अतः प्रकृत्यभिधानादल 'शृणु' कथयतो ममेति शेषः ॥१६॥ तत्रादौ प्रदेशाग्रमाहमूलम्-सव्वेसिं चेव कम्माणं, पएसग्गमणंतगं । गंठिअसत्ताईअं, अंतो सिद्धाण आहि ॥१७॥ व्याख्या-सर्वेषां चः पूतों एवोऽपिशब्दार्थः, ततः सर्वेषामपि कर्मणां 'प्रदेशाग्रं परमाणुपरिमाणं अनन्तमेवानन्तकं । तच्चानन्तकं ग्रन्थिकसत्त्वा-ये प्रन्थिदेशं गत्वापि तं भित्त्वा न कदाचिदुपरि गन्तारस्ते चाभव्या एवात्र गृह्यन्ते, तानतीतं तेभ्योऽनन्तगुणत्वेनातिक्रान्तं अन्थिकसच्चातीतं । तथा 'अन्तर मध्ये सिद्धानामाख्यातं, सिद्धेभ्यो हि कर्मपरमाणवोऽनन्तभागे एव स्युः । एकस्य जीवम्य एकसमयग्राह्यकर्मपरमाएक्पेक्षं चैतत् , अन्यथा हि सर्वजीवेम्योप्यनन्तानन्तगुणत्वात्सर्वकर्मपरमारणूनां कथमिदमुपपद्यतेति ॥१७॥क्षेत्रमाहमूलम्-सव्वजीवाण कम्मं तु, संगहे छद्दिसागयं । सव्वेसुवि पएसेसु, सव्वं सव्वेण बझगं ॥१८॥ __ व्याख्या-सर्वजीवानां कर्म ज्ञानावरणादि, 'तुः' पूत्तौं, 'संग्रहे' संग्रहक्रियायां योग्यं स्यादिति शेषः, यद्वा सर्वजीवाः 'ण' इति वा- | VEGVESVESEVGeerverovere S IOकर
SR No.600344
Book TitleUttaradhyayanani Part 03 And 04
Original Sutra AuthorN/A
AuthorBhavvijay Gani, Harshvijay
PublisherVinay Bhakti Sundar Charan Granthmala
Publication Year1959
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy