Book Title: Uttaradhyayan Sutram Part 01
Author(s): Atmaramji Maharaj, Shiv Muni
Publisher: Jain Shastramala Karyalay

View full book text
Previous | Next

Page 14
________________ इन तीनों गाथाओं का संक्षेप से व्याख्यानुसारी तात्पर्य इस प्रकार है' – चार प्रकार के अनुयोग कथन किए गए हैं— चरणानुयोग, धर्मानुयोग, गणितानुयोग और द्रव्यानुयोग । ये चारों उत्तरोत्तर महत्वशाली हैं, अर्थात् प्रथम की अपेक्षा दूसरा अधिक महत्व रखता है। अनुकूल अथवा अनुरूप योग – व्याख्या को अनुयोग' कहते हैं । तात्पर्य यह है कि समस्त जैन सूत्र उक्त चारों अनुयोगों में ही प्रतिपादन किए गए हैं । १. इस गाथात्रय की संस्कृत व्याख्या भी है, जो कि क्रमशः नीचे दी जाती है— व्याख्या - चत्वारः इति संख्यावचनः शब्द । अनुकूला अनुरूपा वा योगा अनुयोगाः । तु शब्दः एवकारार्थः, चत्वार एव । अन्ये तु तु शब्दं विशेषणार्थं व्याख्यानयन्ति । किं विशेषयन्तीति — चत्वारोऽनुयोगाः । तु शब्दाद् द्वौ च पृथक्त्वा पृथक्त्वभेदात् । कथं चत्वारोऽनुयोगाः ? इत्याह – “ चरणे धम्मगणियाणुओगे य” चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे, अत्र चोत्तरपदलोपादित्थमुपन्यासः । अन्यथा चरणकरणानुयोगे इत्येवं वक्तव्यम्, स चैकादशांगरूपः । “धम्मे" इति धारयतीति धर्मः, दुर्गतौ पतन्तं सत्त्वमिति, तस्मिन् धर्मे — धर्मविषये द्वितीयोऽनुयोगो भवति, स चोत्तराध्ययनप्रकीर्णकरूपः । “गणियाणुओगे य" इति गण्यत इति गणितम्, तस्यानुयोगो गणितानुयोगः, तस्मिन् गणितानुयोगे – गणितानुयोगविषये तृतीयो भवति, स च सूर्यप्रज्ञप्त्यादिरूपः । च शब्दः प्रत्येकमनुयोग पदसमुच्चायकः । "दव्वियणुजोगे" त्ति द्रवतीति द्रव्यं, तस्यानुयोगो द्रव्यानुयोगः सदसत्पर्यालोचनारूपः । स च दृष्टिवादः, च शब्दादनाषः सम्मत्यादिरूपः । तथेति क्रमप्रतिपादकः । आगमोक्तेन प्रकारेण " यथाक्रम" यथापरिपाट्येति । चरणकरणानुयोगाद्या " महर्द्धिकाः " प्रधानाः इति यदुक्तं भवति । एवं व्याख्याते सत्याह परः – “चरणे धम्मगणियाणुओगे य, दव्वियणुओगे य" त्ति यद्येतेषां भेदेनोपन्यासः क्रियते, तत्किमर्थं चत्वार ? इत्युच्यते — विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदं भिन्नया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्द्रव्यानुयोगो भिन्नया विभक्तयेति, तथाऽनुयोगशब्दश्चैक एंवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यस्त इति ? अत्रोच्यते —— यत्तावदुक्तं चतुर्ग्रहणं न कर्त्तव्यं, विशिष्टपदोपन्यासात्, तदसत, यतो विशिष्टसंख्यावगमो भवति विशिष्टपदोपन्यासेऽपि, कुतः ? चरणधर्मगणितद्रव्यपदानि सन्ति, अन्यान्यपि सन्तीति संशयो मा भूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति, तथा यच्चोक्तं — भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम् ? तत्रैतत् प्रयोजनं चरणकरणानुयोग एवात्राधिकृतः, प्राधान्यख्यापनार्थं भिन्नया विभक्त्या उपन्यास इति, तथा धर्मगणितानुयोगौ एकविभक्त्योपन्यस्तौ, अत्र तु क्रमेऽप्रधानावेताविति, तथा द्रव्यानुयोगे भिन्नविभक्त्युपन्यासे प्रयोजनम् । अयं हि एकैकानुयोगे मीलनीयः, न पुनर्लौकिकशास्त्रवद् युक्तिभिनं विचारणीय इति । तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजनमुच्यते —— यत् त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वानुयोगप्रतिपादनार्थमिति । यच्चर्व्यानुयोग इति तत्पृथक्त्वानुयोगाः प्रतिपादनार्थमिति । एवं व्याख्याते सत्याह परः इह गाथासूत्रपर्यन्त इदमुक्तम् — “यथाक्रमं ते महर्द्धिका" इति । एवं तर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य निर्युक्तिः क्रियते ? अपितु द्रव्यानुयोगस्य यूज्यते कर्तुं सर्वेषामेव प्रधानत्वात्, एव चोदकेनाक्षेपे कृते सत्युच्यते (२) स्वश्चासौ विषयश्च स्वविषयस्तस्मिन् स्वविषये बलवत्त्वं पुनर्युज्यते घटते । एतदुक्तं भवतिआत्मीयात्मीयविषये सर्व एव बलवन्तो वर्तन्त इति । एवं व्याख्याते सत्यपरस्त्वाह — यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्तम् आत्मीयात्मीयविषये सर्वेषामेव बलवत्त्वात्, तथापि चरणकरणानुयोगस्य न कर्त्तव्येति । एवं चोदकेनाशंकते सत्याह गुरुः‘“तहवि य महड्डियं चरणं” तथापि एवमपि स्वविषयबलवत्त्वेऽपि सति महर्द्धिकं चरणमेव । शेषानुयोगानां चरणकरणानुयो श्री उत्तराध्ययन सूत्रम् / 11 / प्रस्तावना

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 ... 490