________________
इन तीनों गाथाओं का संक्षेप से व्याख्यानुसारी तात्पर्य इस प्रकार है' – चार प्रकार के अनुयोग कथन किए गए हैं— चरणानुयोग, धर्मानुयोग, गणितानुयोग और द्रव्यानुयोग । ये चारों उत्तरोत्तर महत्वशाली हैं, अर्थात् प्रथम की अपेक्षा दूसरा अधिक महत्व रखता है। अनुकूल अथवा अनुरूप योग – व्याख्या को अनुयोग' कहते हैं । तात्पर्य यह है कि समस्त जैन सूत्र उक्त चारों अनुयोगों में ही प्रतिपादन किए गए हैं ।
१. इस गाथात्रय की संस्कृत व्याख्या भी है, जो कि क्रमशः नीचे दी जाती है—
व्याख्या - चत्वारः इति संख्यावचनः शब्द । अनुकूला अनुरूपा वा योगा अनुयोगाः । तु शब्दः एवकारार्थः, चत्वार एव । अन्ये तु तु शब्दं विशेषणार्थं व्याख्यानयन्ति । किं विशेषयन्तीति — चत्वारोऽनुयोगाः । तु शब्दाद् द्वौ च पृथक्त्वा पृथक्त्वभेदात् । कथं चत्वारोऽनुयोगाः ? इत्याह – “ चरणे धम्मगणियाणुओगे य” चर्यत इति चरणं, तद्विषयोऽनुयोगश्चरणानुयोगस्तस्मिन् चरणानुयोगे, अत्र चोत्तरपदलोपादित्थमुपन्यासः । अन्यथा चरणकरणानुयोगे इत्येवं वक्तव्यम्, स चैकादशांगरूपः । “धम्मे" इति धारयतीति धर्मः, दुर्गतौ पतन्तं सत्त्वमिति, तस्मिन् धर्मे — धर्मविषये द्वितीयोऽनुयोगो भवति, स चोत्तराध्ययनप्रकीर्णकरूपः । “गणियाणुओगे य" इति गण्यत इति गणितम्, तस्यानुयोगो गणितानुयोगः, तस्मिन् गणितानुयोगे – गणितानुयोगविषये तृतीयो भवति, स च सूर्यप्रज्ञप्त्यादिरूपः । च शब्दः प्रत्येकमनुयोग पदसमुच्चायकः । "दव्वियणुजोगे" त्ति द्रवतीति द्रव्यं, तस्यानुयोगो द्रव्यानुयोगः सदसत्पर्यालोचनारूपः । स च दृष्टिवादः, च शब्दादनाषः सम्मत्यादिरूपः । तथेति क्रमप्रतिपादकः । आगमोक्तेन प्रकारेण " यथाक्रम" यथापरिपाट्येति । चरणकरणानुयोगाद्या " महर्द्धिकाः " प्रधानाः इति यदुक्तं भवति । एवं व्याख्याते सत्याह परः – “चरणे धम्मगणियाणुओगे य, दव्वियणुओगे य" त्ति यद्येतेषां भेदेनोपन्यासः क्रियते, तत्किमर्थं चत्वार ? इत्युच्यते — विशिष्टपदोपन्यासादेवायमर्थोऽवगम्यत इति, तथा चरणपदं भिन्नया विभक्त्या किमर्थमुपन्यस्तम् ? धर्मगणितानुयोगौ तु एकयैव विभक्त्या, पुनर्द्रव्यानुयोगो भिन्नया विभक्तयेति, तथाऽनुयोगशब्दश्चैक एंवोपन्यसनीयः, किमर्थं द्रव्यानुयोग इति भेदेनोपन्यस्त इति ?
अत्रोच्यते —— यत्तावदुक्तं चतुर्ग्रहणं न कर्त्तव्यं, विशिष्टपदोपन्यासात्, तदसत, यतो विशिष्टसंख्यावगमो भवति विशिष्टपदोपन्यासेऽपि, कुतः ? चरणधर्मगणितद्रव्यपदानि सन्ति, अन्यान्यपि सन्तीति संशयो मा भूत्कस्यचिदित्यतश्चतुर्ग्रहणं क्रियत इति, तथा यच्चोक्तं — भिन्नया विभक्त्या चरणपदं केन कारणेनोपन्यस्तम् ? तत्रैतत् प्रयोजनं चरणकरणानुयोग एवात्राधिकृतः, प्राधान्यख्यापनार्थं भिन्नया विभक्त्या उपन्यास इति, तथा धर्मगणितानुयोगौ एकविभक्त्योपन्यस्तौ, अत्र तु क्रमेऽप्रधानावेताविति, तथा द्रव्यानुयोगे भिन्नविभक्त्युपन्यासे प्रयोजनम् । अयं हि एकैकानुयोगे मीलनीयः, न पुनर्लौकिकशास्त्रवद् युक्तिभिनं विचारणीय इति । तथाऽनुयोगशब्दद्वयोपन्यासे प्रयोजनमुच्यते —— यत् त्रयाणां पदानामन्तेऽनुयोगपदमुपन्यस्तं तदपृथक्त्वानुयोगप्रतिपादनार्थमिति । यच्चर्व्यानुयोग इति तत्पृथक्त्वानुयोगाः प्रतिपादनार्थमिति ।
एवं व्याख्याते सत्याह परः इह गाथासूत्रपर्यन्त इदमुक्तम् — “यथाक्रमं ते महर्द्धिका" इति । एवं तर्हि चरणकरणानुयोगस्य लघुत्वं, तत्किमर्थं तस्य निर्युक्तिः क्रियते ? अपितु द्रव्यानुयोगस्य यूज्यते कर्तुं सर्वेषामेव प्रधानत्वात्, एव चोदकेनाक्षेपे कृते सत्युच्यते
(२) स्वश्चासौ विषयश्च स्वविषयस्तस्मिन् स्वविषये बलवत्त्वं पुनर्युज्यते घटते । एतदुक्तं भवतिआत्मीयात्मीयविषये सर्व एव बलवन्तो वर्तन्त इति । एवं व्याख्याते सत्यपरस्त्वाह — यद्येवं सर्वेषामेव नियुक्तिकरणं प्राप्तम् आत्मीयात्मीयविषये सर्वेषामेव बलवत्त्वात्, तथापि चरणकरणानुयोगस्य न कर्त्तव्येति । एवं चोदकेनाशंकते सत्याह गुरुः‘“तहवि य महड्डियं चरणं” तथापि एवमपि स्वविषयबलवत्त्वेऽपि सति महर्द्धिकं चरणमेव । शेषानुयोगानां चरणकरणानुयो
श्री उत्तराध्ययन सूत्रम् /
11 / प्रस्तावना