Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 11
________________ (६) श्वेताम्बर - वाङ्मये तत्त्वार्थसूत्रमनुसृत्य विविधास्टीकाः विद्यन्ते । अस्यैव सूत्रस्योपरि महामान्य-श्रीउमास्वातिमहाशयस्य स्वोपज्ञं भाष्यं वर्तते । तस्मिन् भाष्यग्रंथे आत्मपरिचयं प्रदत्तवान् स्वयंश्रीवाचकवरेण्यः । वाचकमुख्यस्य शिवश्रियः प्रकाशयशसः प्रशिष्येण । शिष्येण घोषनन्दिक्षमणस्यैकादशाङ्गविदः ।। १ ॥ वाचनया च महावाचकक्षमणमुण्डपाद - शिष्यस्य । शिष्येण वाचकाचार्य - मूलनाम्नः प्रथितकीर्तेः ॥ २ ॥ न्यग्रोधिका - प्रसूतेन विहरता पुरवरे कुसुमनाम्नि । कौभीषणिना स्वातितनयेन वात्सी - सुतेनाय॑म् ।। ३ ।। अर्हद्वचनं सम्यग्गुरुक्रमेणागतं समुपधार्य । दुःखातं च दुरागम - विहतमतिं लोकमवलोक्य ।। ४ ।। इदमुच्चैर्नागर - वाचकेन सत्त्वानुकम्पया दृब्धम् । तत्त्वार्थाधिगमाख्यं स्पष्टमुमास्वातिना शास्त्रम् ।। ५ ।। यस्तत्त्वाधिगमाख्यं ज्ञास्यति च करिष्यते च तथोक्तम् । सोऽव्याबाधसुखाख्यं प्राप्स्यत्यचिरेण परमार्थम् ।। ६ ।। श्रीतत्त्वार्थकारः सुतश्चासीत् वात्सीमातुः। स्वातिजनकस्य पुत्रश्च । उच्चनागरीय शाखायाः श्रमणः न्यग्रोधिकायां समुत्पन्नः । गोत्रेण कौभीषणिश्चासीत् । पाटलीपुत्रनगरे रचितवान् सूत्रमिमं । श्रामण्यव्रतदाता घोषनन्दी, प्रज्ञापारदर्शी श्रुतशास्त्रे-एकादशाङ्गविदासीत् । विद्यादातृ णां गुरुवराणां वाचकविशेषानां मूलशिवश्रीमुण्डपादप्रमुखानां श्लाघनीया परम्परा विद्यते। पुरातनकाले विद्यावंशस्य सौष्ठवं समीचीनं दृश्यते। तत्त्वार्थकारः श्रीउमास्वाति विद्यावंशविशिष्टविज्ञपुरुषः प्रतिभाति । तत्त्वार्थस्य टोकाकारः "श्री सिद्धसेनगणि” “गन्धहस्ती" इत्याख्यया प्रसिद्धिमलभत् । अयमेव सिद्धसेनगणि मल्लवारिनः नयचक्रग्रन्थस्य टीकाकारस्य श्रीसिद्धसूरस्यान्वयेऽभूत् । ___ अपरश्च टीकाकारः श्रीयाकिनीसूनुः श्रीहरिभद्र-महाभागः, अयमेव हरिभद्रसूरिः तत्त्वार्थस्य लघुवृत्तिटीकां पूर्णां न चकार । यशोभद्रेण पूर्णा कृता। उपांगटीकाकारेण श्रीमलयगिरिणा "प्रज्ञापना"वृत्तौ चोक्तम्-तच्चाप्राप्तकारित्वं तत्त्वार्थटीकादौ सविस्तरेण प्रसाधितमिति ततोऽवधारणीयं ।।

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 166