Book Title: Tattvarthadhigam Sutraam Tasyopari Subodhika Tikat tatha Hindi Vivechanamrut Part 01 02
Author(s): Vijaysushilsuri
Publisher: Sushil Sahitya Prakashan Samiti

View full book text
Previous | Next

Page 9
________________ ७) तत्त्वार्थाधिगमे दशाध्यायाः सन्ति येषु विशदीकृतं व्याख्यातञ्च जैनतत्त्वदर्शनम् । तत्त्वार्थाधिगमस्य प्रथमाध्यायस्य संस्कृत हिन्दी भासाया व्याख्यायितोऽयं ग्रन्थः विद्वमूर्धन्याचार्यः श्रीविजय सुशीलसूरीश्वर महोदयैः श्रतीवोपादेयत्वं धार्यते । जैनदर्शनसाहित्ये शताधिकग्रन्थानां रचयिता श्रीमद्विजयसुशील सूरीश्वरः दर्शनशास्त्राणां प्रतीवमेधावी विद्वान् वर्तते । - उर्वरीक्रियतेऽनेन भवमरुधराऽखिलमण्डलम् । जिनशासनञ्च स्वतपतेज - व्याख्यानलेखन - पीयूषधारा जीमूतमिव श्रीमद्विजयसुशीलसूरीश्वरेण प्रथमेऽध्याये मोक्षपुरुषार्थसिद्धये निर्दोषप्रवृत्तिश्च तस्या जघन्यमध्यमोत्तरस्वरूपं विशदीकृतमस्ति — ( 9 ) देवपूजनस्यावश्यकता तस्य फलसिद्धिः । ( २ ) सम्यग्दर्शनस्य स्वरूपं तथा तत्त्वानां व्यवहारलक्षणानि । (३) प्रमाणनयस्वरूपस्य वर्णनम् । ( ४ ) जिनवचनश्रोतॄणां व्याख्यातृणाञ्च फलप्राप्तिः । (५) ग्रंथव्याख्यानप्रोत्साहनम् । (६) श्रेयमार्गस्योपदेश: सरलसुबोधटीकया विवक्षितः । अस्य ग्रंथस्य टीका प्राचार्यप्रवरेण समयानुकूल - मनोवैज्ञानिक - विश्लेषरणेन महती प्रभावोत्पादका कृता । प्राचार्यदेवेन तत्त्वार्थाधिगमसूत्रसदृशः क्लिष्ट विषयोऽपि सरलरीत्या प्रबोधितः । जनसामान्यबुद्धिरपि जनः तत्त्वविषयं श्रात्मसात्कर्तुं शक्नोति । अस्मिन् भौतिकयुगे सर्वेऽपि भौतिकैषणाग्रस्ता मिथ्यासुखतृष्णायां व्याकुलाः मृगो जलमिव भ्रमन्ति आत्मशान्तये । आत्मशान्तिस्तु भौतिक सुखेषु असम्भवा । भवाम्भोधिपोतरिवायं ग्रन्थः मोक्षमार्गस्य पाथेयमिव सर्वेषां तत्त्वदर्शनस्य रुचि प्रवर्धयति । आत्मशान्तिस्तु तत्त्वदर्शनाध्ययनेनैव वर्तते न तु भौतिकशिक्षया । एतादृशी सांसारिकीविभीषिकायां प्राचार्यमहोदयस्यायं ग्रन्थः संजीवनीवोपयोगित्वं धार्यते संसारिणाम् । ज्ञानजिज्ञासुनां कृते ग्रन्थोऽयं शाश्वतसुखस्य पुण्यपद्धतिरिव मोक्षमार्ग प्रशस्तिकरोति । _suit प्रथमोऽध्यायः पाठकाः स्वजीवनं ज्ञानदर्शनचारित्रमयं कृत्वाऽनुभविष्यन्ति पूर्वशान्तिमिति शुभम् । फाल्गुन शुक्ल पूर्णिमा बुधवार, १८-३-१६६२ जालोर (राजस्थान ) - पं. हीरालाल शास्त्री, एम. ए. व्याख्याता संस्कृत

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 166