Book Title: Swayambhu Stotra Chaturvinshati Jinstuti
Author(s): Samantbhadracharya, Prabhachandracharya, Jindas Parshwanath Phadkule
Publisher: Sakharam Nemchand Doshi
View full book text
________________
(२२)
स ब्रह्मनिष्ठ इत्यादि । सोऽजितो भगवान् । ब्रह्मनिष्ठः ब्रह्मणि सकलदोषरहिते परमात्मस्वरूपे निष्ठा परिसमाप्तिर्यस्य । अतो न किंचित्तत्प्रणयने फलमसावपेक्षते कृतकृत्यत्वात् केवलं परार्थवास्य प्रवृत्तिः । अत एव सममित्रशत्रुः । मित्राणि च शत्रवश्च मित्रशत्रवः । ते समा यस्य । कथमसी ब्रह्मनिष्ठः कथं वा सममित्रशत्रुरित्याह-विद्येत्यादि । विद्यया परमागमज्ञानतदर्थानुष्ठानलक्षणया विशेषेण निर्वान्तास्त्यक्ताः कषाया द्रव्यक्रोधादयो दोषा भावक्रोधादयो येन । निराकृतद्रव्यभावरूपघातिकर्ममलकलंक इत्यर्थः । यत एवंविधोऽसौ ततो ब्रह्मनिष्ठः सममित्रशत्रुश्च भवति । भवतु तथाविधोसौ तनिष्ठस्तथापि तदा चैतन्यमात्रस्वरूपः किञ्चिज्ज्ञो वा भविष्यति । अतः कथं धर्मतीर्थं प्रणीतवामित्याह-लब्धात्मलक्ष्मीरिति । आत्मनो लक्ष्मीरनन्तज्ञानादिलक्षणा। लब्धा प्राप्ता सा येनासौ लब्धात्मलक्ष्मीः । समासान्तो विधिरनित्य इति वचबादृण्मोरिति कप न भवति । स इत्थम्भूतोऽजितः । अन्तरंगै बैश्च शत्रुभिनं जीयते इति अजितः । जितात्मा जित आत्मा येनासौ जितात्मा । आत्मवान् इत्यर्थः । इन्द्रियाधीनो न भवतीति यावत् । भगवान् विशिष्टज्ञानवान्पूज्यो • वा। विधत्तां करोतु । का? जिनश्रियं जिनस्य श्रीरनन्तज्ञानादिविभूतिस्तां मे मह्यं । __ मराठी अर्थः-अठरा दोषांनीरहित अशा परमात्म स्वरूपाची प्राप्ति ज्यांस झाली आहे. व ह्मणूनच परमागमाची रचना करण्यांत परोपकाराशिवाय दुसरा कोणताही उद्देश ज्यांचा नव्हता; कारण, स्वतः कृतकृत्य असल्यामुळे ते निरिच्छ होते. मण्न परोपकाराशिवाय दुसरा कोणता बरें उद्देश असं शकेल ? यामुळेच मित्र व शत्रु या उभयतांवर समान दृष्टि ठेवणारे व केवल ज्ञानाची प्राप्ति व चारित्र गुणाची पूर्ति झाल्याने द्रव्य क्रोधादि व भावक्रोधादि दोषांचा नाश ज्यांनी केला, अर्थात् घातिकर्ममलांचा ज्यांनी नाश केला आहे, व
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org