Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
२६३
श्री सुमित्रमंत्री चरित्रं परमेष्ठिनमस्कारसुधासेकविवेकतः । पुनर्मानुषजन्मद्वं सचिवः सफलं व्यधात् ॥२७॥ अन्वयः- पुनः परमेष्ठिनमस्कार-सुधा-सेक विवेकतः सचिवः मानुष
जन्म→ सफलं व्यधात् ॥२७॥ समुपेत्य पुनर्वेत्री मन्त्रीन्दुमिदमभ्यधात् । युष्मदुक्तैर्नृपः स्वाज्ञालोपात्कोपान्धतामधात् ॥२८॥ अन्वयः- वेत्री पुनः समुपेत्य मन्त्रि-इन्दुं इदं अभ्यधात्, 'युष्मद् उक्तैः'
स्व-आज्ञालोपात् नृपः कोपअन्धतां अधात् ॥२८॥ इह नायाति मायातिचित्रधीः सचिवः स चेत् । तत्सर्वैश्वर्यमुद्रा मे याच्येति प्रजिघाय माम् ॥२९॥ अन्वयः- माया-अतिचित्रधीः सः सचिवः चेत् इह न आयाति तत् मे
सर्व-ऐश्वर्यमुद्रा याच्या इति मां प्रजिघाय ॥२९॥ इति श्रुतप्रतीहारव्याहारः सचिवो हसन् । तत्क्षणं प्रेषयन्मुद्रां दुःशीलामिव दासिकाम् ॥३०॥ अन्वयः- इति श्रुत-प्रतिहार-व्याहारः हसन् सचिवः,
तत्क्षणं दुःशीलां दासिकां इव मुद्रां प्रैषयत् ॥३०॥ मन्त्री श्रेयःसमुद्रोऽस्मिन्समुद्रे सद्मतो गते । राज्यचिन्ताशल्यनाशात् दृढं धर्मपरोऽभवत् ॥३१॥ अन्वयः- श्रेयःसमुद्रः मन्त्री समुद्रे अस्मिन् समतः गते (सति),
राज्य-चिन्ता-शल्य-नाशात् दृढं धर्मपरः अभवत् ॥३१॥
१. श्रुतप्रतिहारव्याहारः जेणे द्वारपाळनो वार्तालाप सांभळ्यो छे । २. समुद्रे=मुद्रया सहितः समुद्रः=मंत्री मुद्रा सहित प्रतिहारी बहार गये छते

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154