SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ २६३ श्री सुमित्रमंत्री चरित्रं परमेष्ठिनमस्कारसुधासेकविवेकतः । पुनर्मानुषजन्मद्वं सचिवः सफलं व्यधात् ॥२७॥ अन्वयः- पुनः परमेष्ठिनमस्कार-सुधा-सेक विवेकतः सचिवः मानुष जन्म→ सफलं व्यधात् ॥२७॥ समुपेत्य पुनर्वेत्री मन्त्रीन्दुमिदमभ्यधात् । युष्मदुक्तैर्नृपः स्वाज्ञालोपात्कोपान्धतामधात् ॥२८॥ अन्वयः- वेत्री पुनः समुपेत्य मन्त्रि-इन्दुं इदं अभ्यधात्, 'युष्मद् उक्तैः' स्व-आज्ञालोपात् नृपः कोपअन्धतां अधात् ॥२८॥ इह नायाति मायातिचित्रधीः सचिवः स चेत् । तत्सर्वैश्वर्यमुद्रा मे याच्येति प्रजिघाय माम् ॥२९॥ अन्वयः- माया-अतिचित्रधीः सः सचिवः चेत् इह न आयाति तत् मे सर्व-ऐश्वर्यमुद्रा याच्या इति मां प्रजिघाय ॥२९॥ इति श्रुतप्रतीहारव्याहारः सचिवो हसन् । तत्क्षणं प्रेषयन्मुद्रां दुःशीलामिव दासिकाम् ॥३०॥ अन्वयः- इति श्रुत-प्रतिहार-व्याहारः हसन् सचिवः, तत्क्षणं दुःशीलां दासिकां इव मुद्रां प्रैषयत् ॥३०॥ मन्त्री श्रेयःसमुद्रोऽस्मिन्समुद्रे सद्मतो गते । राज्यचिन्ताशल्यनाशात् दृढं धर्मपरोऽभवत् ॥३१॥ अन्वयः- श्रेयःसमुद्रः मन्त्री समुद्रे अस्मिन् समतः गते (सति), राज्य-चिन्ता-शल्य-नाशात् दृढं धर्मपरः अभवत् ॥३१॥ १. श्रुतप्रतिहारव्याहारः जेणे द्वारपाळनो वार्तालाप सांभळ्यो छे । २. समुद्रे=मुद्रया सहितः समुद्रः=मंत्री मुद्रा सहित प्रतिहारी बहार गये छते
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy