________________
२६२
सुलभचरित्राणि-२ अन्वयः- इति तयोः क्षत्रमन्त्रिणोः प्रायः नित्यं संलापः प्रजामध्ये अधिकं
प्रसिद्धिमधुरः अजायत् ॥२१॥ निर्वर्त्य सर्वकृत्यानि कदाचित् सचिवेश्वरः। पाक्षिकावश्यकं कर्तुं सायं स्वावासमासदत् ॥२२॥ अन्वयः- कदाचित् सचिवेश्वरः सर्वकृत्यानि निर्वर्त्य,
पाक्षिकावश्यकं कर्तुं सायं स्वावासं आसदत् ॥२२॥ गृहाद् बहिर्न निर्यामीत्यात्तदेशावकाशिकः । सत्यसंधो महामात्यः प्रत्याख्यानविधिं व्यधात् ॥२३॥ अन्वयः- आत्तदेशावकाशिकः सत्यसंधः महाअमात्यः गृहात् बहिः न
निर्यामि इति प्रत्याख्यानविधि व्यधात् ॥२३॥ आवश्यके कृते शुद्धश्रद्धान-ध्यानबन्धुरः। मन्त्रीश्वरो नमस्कारपरावर्तपरोऽभवत् ॥२४॥ अन्वयः- आवश्यके कृते (सति) शुद्धश्रद्धान-ध्यानबन्धुरः ।
मन्त्रीश्वरः नमस्कारपरावर्तपरः अभवत् ॥२४॥ समाह्वयति वः स्वामी गुरुकार्यतयेत्यथ । नृपतिप्रतिहारस्तं तदागत्य व्यजिज्ञपत् ॥२५॥ अन्वयः- अथ तदा, स्वामी गुरुकार्यतया वः समाह्वयति,
इति नृपतिप्रतिहारः आगत्य तं व्यजिज्ञपत् ॥२५॥ २आ प्रभातात् गृहबहिर्गतिं प्रत्याख्याय स्थितः, प्रातः एष्यामि इति उक्त्वा वेत्री प्रेष्यत ॥२६॥ आ प्रभातात् गृह-बहिःगतिं प्रत्याख्याय स्थितः (अहं), प्रातः एष्यामि इति उक्त्वा वेत्री प्रैष्यत ॥२६।। १. क्षत्र=राजा । २. जुओ २७४ मुं पेज।