________________
श्री सुमित्रमंत्री चरित्रं
२६१ ततोऽमात्यं जगौ राजा पाषाणे द्विदलीकृते । भवत्येकेन सोपानं द्वितीयेन तु देवता ॥१६॥ अन्वयः- ततः राजा अमात्यं जगौ, पाषाणे द्विदले कृते,
(सति) एकेन सोपानं, द्वितीयेन तु देवता भवति ॥१६॥ तत् किं तस्यैकदेशेन धर्मश्चक्रे परेण न । सिद्धा स्वभावाद्विश्वस्य भव्याभव्यव्यवस्थितिः ॥१७॥ अन्वयः- तत् तस्य एकदेशेन किं धर्मः चके? परेण न? स्वभावात्
विश्वस्य भव्य-अभव्य-स्थितिः सिद्धा (अस्ति) ॥१७॥ अथाह मन्त्री ! ना जीवो ग्रावात्र स्यान्निदर्शनम् । सति धर्मिणि धर्माणां स्थापना युज्यते ततः ॥१८॥ अन्वयः- अथ मन्त्री आह, अत्र अजीवः ग्रावा निदर्शनं न स्यात्,
ततः धर्मिणि सति धर्माणां स्थापना युज्यते ॥१८॥ इत्युक्तस्तं नृपः किञ्चित् सवैलक्ष्यस्मितोऽवदत् । अहं मन्त्रिन् ! वचः शक्त्या त्वया चक्रे निरुत्तरः ॥१९॥ अन्वयः- इति उक्तः नृपः किञ्चित् सवैलक्ष्यस्मितः तं अवदत्,
(हे) मन्त्रिन् ! वचःशक्त्या त्वया अहं निरुत्तरः चक्रे ॥१९॥ परं प्रत्यक्षदृष्टेन प्रभावेणैव कुत्रचित् । निःसंशयं करिष्यामि धर्म मन्त्रीश नान्यथा ॥२०॥ अन्वयः- परं (हे) मन्त्रीश ! कुत्रचित् प्रत्यक्षदृष्टेन प्रभावेण एव निःसंशयं .
धर्मं करिष्यामि, अन्यथा न (करिष्यामि) ॥२०॥ इति प्रायस्तयोर्नित्यं संलापः क्षत्रमन्त्रिणोः । अजायत प्रजामध्ये प्रसिद्धिमधुरोऽधिकम् ॥२१॥