________________
२६०
सुलभचरित्राणि-२ अन्वयः- अहो! एभिः विफलैः धर्म-कर्म-क्लेशैः भवादृशः कः जरा
क्रान्तं देहं इति अविश्रान्तं दहति ? ॥१०॥ इत्युक्तः स्मितवक्त्रोऽयं मन्त्री धात्रीधवं जगौ । किं नृदेव ! त्वमप्येवमनौ-चित्येन भाषसे ॥११॥ अन्वयः- इति उक्तः स्मितवक्त्रः अयं मन्त्री धात्रीधवं जगौ, (हे) नृदेव!
त्वं अपि एवं अनौचित्येन किं भाषसे ? ॥११॥ इच्छामि धर्मकृत्येषु त्वां कारयितुमुद्यमम् । मामपि त्वं तुं किं नाथ ! निषेधयसि तेषु हा ॥१२॥ अन्वयः- त्वां धर्मकृत्येषु उद्यम कारयितुं इच्छामि,
__ (हे) नाथ ! त्वं तु हा ! मां अपि तेषु किं निषेधयसि ॥१२॥ धर्मः किं विफलः स स्याद्यत्प्रसादेन धीधनैः । निर्विनैः स्वर्गमोक्षाणामपि सौख्यमवाप्यते ॥१३॥ अन्वयः- सः धर्मः किं विफलः स्यात् ? यत् प्रसादेन निर्विघ्नैः धीधनैः
स्वर्गमोक्षाणां अपि सौख्यम् अवाप्यते ॥१३॥ अथोचे सचिवो राज्ञा मम ज्ञापय मन्त्रिप!। विघ्नोच्छित्याथ संपत्या प्रत्यक्षं धर्मजं फलम् ॥१४॥ अन्वयः- अथ राज्ञा सचिवः ऊचे, (हे) मन्त्रिप ! अथ विघ्न उच्छित्या
संपत्या च प्रत्यक्षं धर्मजं फलं मम ज्ञापय ॥१४॥ इत्युक्तिभाजं राजानं सचिवस्तमुवाच सः । त्वं नाथोऽन्ये तु ते भृत्याः साक्षादेतद्धि तत्फलम् ॥१५॥ अन्वयः- इति उक्तिभाजं तं राजानं सः सचिवः उवाच,
त्वं नाथः अन्ये तु ते भृत्याः एतत् हि साक्षात् तत्-फलं ॥१५॥ १. धात्रीधवं पृथ्वीपति राजाने।