________________
श्री सुमित्रमंत्री चरित्रं
२५९ अन्वयः- 'नासीरवीरश्वासऊर्मिसमुड्डीन-अरिमण्डलः,
तारापीडः इति क्षमापः तां उत्सवैः अपालयत् ॥५॥ तन्मन्त्री कीर्तिकुसुमं सुमित्राख्यः समन्ततः । विश्वसौरभ्यकृद्रेजे जिनभक्तिलताद्रुमः ॥६॥ अन्वयः- जिनभक्ति-लताद्रुमः सुमित्र-आख्यः तत्-मन्त्री
समन्ततः विश्व-सौरभ्यकृत् कीर्ति-कुसुमं भेजे ॥६॥ शास्त्रमङ्गलदीपोद्यद्धाम्नि हन्नामधामनि । यस्यालीनौ भुजस्तम्भतोरणे मतिविक्रमौ ॥७॥ अन्वयः- शास्त्रमङ्गलदीपोद्यद् धाम्नि, भुजस्तम्भतोरणे,
यस्य हृद् नामधामनि 'मति-विक्रमौ आलीनौ (स्तः) ॥७॥ नृपतिर्नवतारुण्यः पुण्यकर्मपराङ्मुखः । उवाच सचिवाधीशं कदाचिद्वार्धकाञ्चितम् ॥८॥ अन्वयः- नवतारुण्यः, पुण्यकर्मपराङ्मुखः नृपतिः,
कदाचित् वार्धक-अञ्चितं सचिवाधीशं उवाच ॥८॥ देवा स्वकरोदामदानव्याख्याश्रवादिभिः । धर्मकृत्यैर्वपुर्मन्निन् ! किं मुधा बाध्यतेऽधुना ॥९॥ अन्वयः- (हे) मन्त्रिन् ! देव-अर्चा-स्वकर-उद्दामदान- व्याख्याश्रव,
आदिभिः धर्मकृत्यैः अधुना वपुः किं मुधा बाध्यते ॥९॥ क एभिर्विफलैर्धर्मकर्म-क्लेशैर्भवादृशः । जराक्रान्तमविश्रान्तमिति देहं दहत्यहो ॥१०॥
१. नासीर अग्रेसर सैन्य । २. मतिविक्रमौ=बुद्धि अने पराक्रम । ३. वार्धक वृद्ध अवस्था। ४. सचिवाधीश मुख्यमंत्री । ५. व्याख्याश्रवव्याख्यान श्रवण ।