SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ | श्री सुमित्रमन्त्री चरित्रं | क्रियते दिग्व्रते मानसक्षेपो यो दिवानिशम् । द्वितीयं तदिदं शिक्षाव्रतं देशावकाशिकम् ॥१॥ अन्वयः- दिग्व्रते दिवा निशं यः मानसक्षेपः क्रियते, तद् इदं देशावकाशिकं द्वितीयं शिक्षाव्रतम् ॥१॥ देशावकाशिकं यावत्कुरुते श्रद्धया सुधीः । तदन्यत्रात्मनां तेनाभयं दत्तं भवेत्तदा ॥२॥ अन्वयः- सुधीः श्रद्धया यावत् देशावकाशिकं कुरुते, तद् अन्यत्र आत्मनां तेन तदा अभयं दत्तं भवेत् ॥२॥ प्रभावादस्य नश्यन्ति विघ्नाः शुद्धात्मनामिह । सुमित्रस्येव जायन्ते परत्र च शुभश्रियः ॥३॥ . . अन्वयः- अस्य प्रभावात् शुद्धात्मनां इह विघ्नाः नश्यन्ति परत्र च सुमित्रस्य ___इव शुभश्रियः जायन्ते ॥३॥ मुख्या पुरीततावस्ति भुवस्तिलकवत्पुरी । चन्द्रिकेति चतुर्वर्गश्रीनिरर्गलनागरा ॥४॥ अन्वयः- भुवः तिलकवत् 'पुरीततौ मुख्या, चतुःवर्गश्रीनिरर्गलनागरा चन्द्रिका इति पुरी अस्ति ॥४॥ नासीरवीरश्वासोर्मिसमुड्डीनाऽरिमण्डलः । तारापीड इति क्षमापस्तामपालयदुत्सवैः ॥५॥ १. पुरीततौ=नगरीओनी श्रेणिमां।
SR No.022627
Book TitleSulabh Charitrani Part 02
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBhadrankar Prakashan
Publication Year
Total Pages154
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy