________________
सुलभचरित्राणि - २
२६४
मुद्रां कौतुकतो वेत्री परिधाय करे तदा । मन्त्री जातोऽहमित्यात्मपदातिषु जगौ हसन् ॥३२॥ अन्वयः- तदा कौतुकतः मुद्रां करे परिधाय,
‘अहं मन्त्री जात:' इति वेत्री हसन् आत्मपदातिषु जगौ ॥३२॥ शनैर्मन्त्रिशिरोरत्न कुरु पादावधारणम् । इति हास्यमुखैः पुंभिर्वृत्तौ गेहाच्चचाल सः ॥३३॥ अन्वयः - (हे) मन्त्रिशिर:रत्न ! शनैः पादावधारणं कुरु इति हास्यमुखैः पुम्भिः वृत्तः सः गेहात् चचाल ॥३३॥
तदैव दैवतः कैश्चिद्भटैः प्रकटितासिभिः । आहत्य पातितो नीतश्चायं वार्तावशेषताम् ॥३४॥
अन्वयः- तदा एव दैवतः प्रकटितसिभिः कैश्चित् भटैः आहत्य पातितः अयं वार्त्तावशेषतां च नीतः ॥३४॥
त्रस्तशेषैस्तदा तस्य सुभटैर्जघ्निरेऽरयः । वेत्री हतो हत इति तुमुलश्च महानभूत् ॥३५॥ अन्वयः - तदा त्रस्तशेषैः तस्य सुभटैः अरयः जघ्निरे,
वेत्री हतः हतः इति महान् तुमुलः च अभूत् ॥३५॥ इति धात्रीधवः श्रुत्वां क्रोधधूमध्वजोद्धुरः । उच्चैर्जल्पमनल्पं स ज्वालाकल्पमकल्पयत् ॥३६॥ अन्वयः - इति श्रुत्वा क्रोध- धूम-ध्वज-उद्धरः सः धात्री - धव: ज्वालाकल्पं अनल्पं जल्पं उच्चैः अकल्पयत् ॥३६॥
अस्मत्कार्यमिदं कुर्वन्नतुच्छच्छद्मसद्मनां । संहारितः प्रतीहारस्तेनासौ मन्त्रिणा ध्रुवम् ॥३७॥