________________
२६५
श्री सुमित्रमंत्री चरित्रं अन्वयः- इदं अस्मत् कार्यं कुर्वन् असौ प्रतिहारः ध्रुवं अतुच्छ छद्मसद्मना
तेन मन्त्रिणा संहारितः ॥३७॥ एतस्य यदि वृद्धस्य शिरच्छित्त्वा स्वपाणिना। उच्छालयामि छलिनस्तन्मे मनसि निर्वृतिः ॥३८॥ अन्वयः- यदि एतस्य छलिनः वृद्धस्य स्वपाणिना शिरः च्छित्वा
उच्छालयामि तत् मे मनसि निर्वृतिः ॥३८॥ एवमुच्चैलपन् गोपः कोपाटोपभटोत्कटः। तत्रागाद्यत्र ते सन्ति घातार्ता वेत्रिघातकाः ॥३९॥ अन्वयः- एवं उच्चैः लपन् कोप आटोपभट उत्कट: 'गोपः तत्र आगात्
यत्र ते वेत्रिघातकाः घातार्ताः सन्ति ॥३९॥ अमात्यभृत्या नैते स्युः केऽपि वैदेशिका इव । इति ध्यात्वा नरेन्द्रस्तान् दीपदृष्टानभाषत ॥४०॥ अन्वयः- एते के अपि 'वैदेशिकाः इव ।
अमात्यभृत्या न स्युः इति ध्यात्वा नरेन्द्रः
दीपदृष्टान् तान् अभाषत ॥४०॥ के यूयं किं हतो वेत्रीत्युर्वीनाथेऽथ पृच्छति । ऊचस्तेऽमर्षदष्टौष्ठा वण्ठाः कण्ठागतासवः ॥४१॥ अन्वयः- अथ यूयं के ? वेत्री किं हतः इति उर्वीनाथे पृच्छति (सति)
___अमर्षदष्ट-औष्ठाः कण्ठ आगत असवः वण्ठाः ऊचुः ॥४१॥ किमस्मान्पृच्छसि माप ! दैवं पृच्छ दुराशयम् ।
अस्मदीशस्य येनैवं चक्रे व्यर्थो मनोरथः ॥४२॥ १. गोपः राजा । २. वैदेशिका (विदेशे भवाः) विदेशीओ।