________________
२६६
सुलभचरित्राणि-२ अन्वयः- (हे) क्षमाप ! अस्मान् किं पृच्छसि ? दुराशयं दैवं पृच्छ ! येन
एवं अस्मत् ईशस्य मनोरथः व्यर्थः चक्रे॥४२॥ धारावासपुराधीशः शूरसेनः स्वसेवकान् । सुमित्रं मन्त्रिणं हन्तुं प्रैषीदस्मान् महेच्छया ॥४३॥ अन्वयः- धारावास पुर-अधीशः शूरसेनः महेच्छया सुमित्रं मन्त्रिणं हन्तुं
स्वसेवकान् अस्मान् प्रैषीत् ॥४३॥ यदयं दण्डयत्यस्मन्नेतारं प्रतिवत्सरम् । त्वामप्यस्मद् विभोः शत्रु सर्वदा पोषयत्यलम् ॥४४॥ अन्वयः- यत् अयं अस्मत्नेतारं प्रतिवत्सरं दण्डयति,
__ अस्मत्-विभोः शत्रु त्वां अपि सर्वदा पोषयति अलम् ॥४४॥ स्वाम्यादेशादिहास्माभिर्बबन्धेऽध्वाद्य मन्त्रिणः ! कुतोऽयमपतत्सिंहबन्धनं जम्बुको यथा ॥४५॥ अन्वयः- स्वामी आदेशात् इह अस्माभिः अद्य मन्त्रिणः अध्वा बबन्धे
यथा सिंहबन्धनं जम्बुकः कुतः अयं अपतत् ? ॥४५॥ इत्युक्तिविकटावेशाः सुभटाः प्रकटाशयाः । ते चत्वारोऽपि पञ्चत्वं जग्मुस्तत्रैव घातकाः ॥४६॥ अन्वयः- इति उक्ति विकट आवेशाः प्रकट आशयाः ते चत्वारः अपि
घातकाः सुभटाः तत्र एव पञ्चत्वं जग्मुः ॥४६॥ नृपः कृतानुतापोऽयं गत्वा पौरवरैर्वृतः । अमात्यं क्षमयामास बाहू धृत्वा वदन्निति ॥४७॥ अन्वयः- अथ कृत अनुतापः पौरवरैः वृतः,
बाहू धृत्वा इति वदन् नृपः अमात्यं क्षमयामास ॥४७॥