________________
श्री सुमित्रमंत्री चरित्रं
मया तेऽपि नृकल्पस्य कल्पितो योऽल्पबुद्धिना । त्वं क्षमस्व क्षमस्व त्वमपराधममुं मयि ॥ ४८ ॥ अन्वयः - अल्पबुद्धिना मया नृकल्पस्य अपि ते यः कल्पितः, अमुं अपराधं त्वं मयि क्षमस्व ! क्षमस्व ! ॥४८॥ व्रतं चेन्नाचरिष्यस्त्वं नाजीविष्यस्ततः पितः ! | त्वां विना नैव राज्यं मेऽभविष्यत् प्राज्यवैभवम् ॥४९॥ अन्वयः - (हे) पित: ! त्वं चेत् व्रतं न आचरिष्यः, ततः न अजीविष्यः, त्वां विना मे प्राज्यवैभवं राज्यं न अभविष्यत् ॥ ४९ ॥
२६७
तदद्यातुल्यकल्याणकारिणः पुण्यकर्मणः । फलं प्रत्यक्षमद्राक्षमहं पापापहं चिरात् ॥५०॥
अन्वयः- तत् अद्य अहं चिरात् अतुल्यकल्याणकारिणः पुण्यकर्मणः पापअपहं फलं प्रत्यक्षं अद्राक्षम् ॥५०॥
सुकृतं जीवितव्यं ते व्रतेनानेन पोषितम् । शोषितं त्वत्कृतेनाद्य दुःकृतं दुर्यशश्च मे ॥ ५१ ॥ अन्वयः - त्वत् कृतेन अनेन व्रतेन ते सुकृतं जीवितव्यं पोषितम्, दुःकृतं दुर्यशश्च मे शोषितम् ॥५१॥ तत्सहस्वापराधं मे प्रसीद वद सात्त्विक ! । धर्मं कारय मां तात ! तारयाशु भवार्णवात् ॥५२॥ अन्वयः- (हे) सात्त्विक ! तत् मे अपराधं सहस्व वद, धर्मं कारय (धर्म) मां (हे) तात ! आशु भव- अर्णवात् तारय ॥५२॥
१. नृकल्पस्य (नृ=मनुष्य) कल्प = कल्पवृक्ष = मनुष्यमां कल्पवृक्ष जेवा तने । २. अपहं-दूर
करनार ।