________________
२६८
सुलभचरित्राणि - २
उवाच सचिवोऽपीदं नापराधोऽस्ति ते ध्रुवम् । यत्क्ष्माप ! सानुतापस्त्वं धर्मे धत्सेऽधुना धियम् ॥५३॥ अन्वयः- अथ सचिवः अपि इदं उवाच, (हे) क्ष्माप ! ध्रुवं ते अपराध न अस्ति, अधुना 'सानुतापः त्वं धर्मे धियं धत्से ॥५३॥ ततः संलब्धमुद्रेण मन्त्रिणा प्रेरितो नृपः । जगृहे गृहिणां धर्मं पूर्णचन्द्रगुरोः पुरः ॥५४॥ अन्वयः- ततः संलब्धमुद्रेण मन्त्रिणा प्रेरित: नृपः, पूर्णचन्द्रगुरोः पुरः गृहिणां धर्मं जगृहे ॥५४॥ मन्त्रिण: शङ्कमानोऽथ निजे कण्ठे कुठारवान् । आयातः शूरसेनोऽपि भूभुजा भूषितः श्रिया ॥५५॥ अन्वयः- अथ मन्त्रिणः शङ्कमानः निजे कण्ठे कुठारवान् शूरसेनः अपि आयातः भूभुजा श्रिया भूषितः ॥५५॥ देवार्चा - दान- सुध्यान- रथयात्रादिकर्मभिः । नृपो मन्त्र्युिपदिष्टैः स्वं विदधे जन्म पावनम् ॥५६॥ अन्वयः - मन्त्रि- उपदिष्टैः देवार्चा - दान- सुध्यान- रथयात्रादि कर्मभिः नृपः स्वं जन्म पावनं विदधे ॥५६॥
तत्र स्वामिनि बालोऽपि चण्डालोऽपि न सोऽभवत् । न यो जिनाधिनाथोक्तधर्मकर्मठतां गतः ॥५७॥ अन्वयः- तत्र (राज्ये) ( तस्मिन्) स्वामिनि (सति) बालः अपि चण्डालः अपि सः न अभवत्, य: जिनाधिनाथ-उक्त धर्मकर्मठतां न गतः ॥५७॥
१. धर्मकर्मठतां=धर्ममां होंशियारी । २. सानुतापः = (अनुतापेन सहितः) ।
1