________________
२६९
श्री सुमित्रमंत्री चरित्रं इत्थं मन्त्रीव भूपश्च कृत्वा धर्मं विशुद्धधीः । महाविदेहे मर्त्यत्वं प्राप्य लेभे शिवश्रियम् ॥५८॥ अन्वयः- इत्थं च मन्त्री इव विशुद्ध-धीः भूपः धर्मं कृत्वा महाविदेहे
मर्त्यत्वं प्राप्य शिवश्रियं लेभे ॥५८॥ ततः सुमित्रदीपेन गमितेऽस्मिन् प्रकाशताम् । देशावकाशिकपथे सञ्चरन्तु सुखं बुधाः ॥५९॥ अन्वयः- ततः सुमित्र-दीपेन प्रकाशतां गमिते अस्मिन् देशावकाशिक
-पथे बुद्धाः सुखं सञ्चरन्तु ॥५९।।
इति दशमे देशावकाशिकाख्ये व्रते ___ सुमित्रमन्त्रिचरित्रं समाप्तम्
अभ्यास (१) देशावगासिकव्रतकर्ता जनः किं कर्ता कथ्यते ? (२) चन्द्रिकानगर्याः वसुपति-मन्त्रिणौ कौ ? (३) धरापतिः अमात्यस्य धर्माधर्मस्य फलं नासीत् तद् ज्ञापयितुं कस्य दृष्टान्तं
अदात् ? (४) नृपेण जल्पित मन्त्रीश्वरः यदा नागच्छत् तदा राजा किमकरोत् ? (५) शूरसेनेलापतिः प्रधानसमीपं कीदृशः आगमत् ? (६) पूर्णचन्द्रगुरोः सानिध्ये को धर्ममस्वीकरोत् ?