Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 127
________________ २८६ सुलभचरित्राणि-२ श्रेष्ठीन्दोरुपकारेण शिक्षया च द्रवन्मनाः । किं स्यादकृत्यमित्येष विज्ञातुं धारयन् धियम् ॥५७॥ निर्यन् पुराबहिर्भागभूमौ शुभ्रप्रभाभिधम् । धर्मोपदेशान् दतं मुनिराजमलोकत ॥५८॥ युग्मम् ॥ अन्वयः- श्रेष्ठीन्दोः उपकारेण शिक्षया च द्रवन्मनाः अकृत्य किं स्यात् ? इति विज्ञातुं धियं धारयन् ॥५७॥ पुरात् निर्यन् एषः बहिःभागभूमौ धर्म-उपदेशान् ददतं शुभ्रप्रभ ___ अभिधं मुनिराजं अलोकत ॥५८॥ युग्मम् ॥ श्रुत्वा तद्देशनां ज्ञातकृत्याकृत्यविवेचनः । मुनीन्दोस्तस्य पादान्ते दीक्षां दक्षोऽयमग्रहीत् ॥५९॥ अन्वयः- तद् देशनां श्रुत्वा ज्ञात-कृत्य-अकृत्य-विवेचनः दक्षः अयं मुनीन्दोः पादान्ते दीक्षां अग्रहीत् ॥५९॥ चारित्रं शुद्धमासेव्य सौधर्मेऽसौ सुरोऽभवत् । सुदत्तस्तु विपद्यायमभवत्सचिवस्तव ॥६०॥ अन्वयः- शुद्धं चारित्रं आसेव्य असौ सौधर्मे सुरः अभवत् । सुदत्तः तु विपद्य अयं तव सचिवः अभवत् ॥६०॥ संपत्सु ह्रियमाणासु यद् भञ्ज न पौषधम् । पदे पदे तदत्रायं विचित्राः प्राप सम्पदः ॥६१॥ अन्वयः- संपत्सु ह्रियमाणासु (अपि) यत् पौषधं न बभञ्ज, तत् अत्र पदे पदे अयं विचित्राः सम्पदः प्राप ॥६१॥ स तु चौरः सुरीभूत स्मरन्नुपकृतीः कृती । चिन्तार्ताय ददौ रत्नं प्रस्तावं प्राप्य मन्त्रिणे ॥६२॥ अन्वयः- सुरीभूतः सः कृती चौरः तु उपकृतीः स्मरन् प्रस्तावं प्राप्य चिन्ता-आर्त्ताय मन्त्रिणे रत्नं ददौ ॥६२॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154