Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 125
________________ २८४ जने शोचत्यथनिद्रे धननाशं निशात्यये । व्यलसद्दिनकृत्येषु श्रेष्ठी पारितपौषधः ॥४७॥ अन्वयः - अथ निशा 'अत्यये 'उन्निद्रे जने धन- नाशं शोचति, पारित-पौषधः श्रेष्ठी (तु) दिनकृत्येषु व्यलसत् ॥४७॥ क्रमादर्जयतो भाग्यभङ्गीसङ्गीकृतात्मनः । धनधोरणयस्तस्य भूरयोऽप्यभवन्पुनः ॥ ४८ ॥ अन्वयः- भाग्य-भङ्गी-सङ्गी-कृत-आत्मनः क्रमात् अर्जयतः तस्य पुनः अपि भूरयः धन - धोरणयः अभवन् ॥४८॥ स कदाचिदवस्वापविद्याविच्चौरचक्रराट् । एकं तल्लोत्रतो हारं विक्रेतुं प्राप तां पुरीम् ॥४९॥ अन्वयः- कदाचित् अवस्वापविद्यावित् सः चौरचक्रराट्, तत् लोप्तः एकं हारं विक्रेतुं तां पुरीं प्राप ॥ ४९॥ तं हारं श्रेष्ठिनस्तस्य वणिक्पुत्रो धनाभिधः । उपलक्ष्यार्पयामास तलारक्षाय तस्करम् ॥५०॥ अन्वयः - धन- अभिधः वणिक्पुत्रः तस्य श्रेष्ठिनः तं हारं उपलक्ष्य, तस्करं ४तलारक्षाय अर्पयामास ॥५०॥ तद्विज्ञाय द्रुतं गत्वा श्रेष्ठी तत्र कृपामयः । स्वं वणिक्पुत्रमाक्षिप्य तलारक्षमदोऽवदत् ॥५१॥ अन्वयः - तत् विज्ञाय कृपामयः श्रेष्ठी तत्र द्रुतं गत्वा, स्वं वणिक्पुत्रं आक्षिप्य तलारक्षं अदः अवदत् ॥५१॥ सुलभचरित्राणि-२ १. अत्यय = पूर्ण थवुं, विनाश थवो । २. उन्निद्रे = लको जाग्या त्यारे । ३. लोप्जं चोरेलुं धन । ४. तलारक्ष = कोटवाळ । =

Loading...

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154