Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 143
________________ ३०२ सुलभचरित्राणि - २ अन्वयः - अथ अन्त: प्रेमसुधासिन्धुतरङ्ग उत्तरया गिरा, माहात्म्यमयः रत्नवतीपतिः एनं आह ॥४७॥ पादस्खलनतः कूपे पतितोऽहं त्वयोज्झितः । इति किं लज्जसे केन स्वोऽप्यनुम्रियते जनः ॥४८॥ अन्वयः- त्वया उज्झितः पादस्खलनतः अहं कूपे पतित:, इति किं लज्जसे ? केन स्वः अपि जन: अनुम्रियते ? ॥४८॥ मिलितोऽस्मिन्ममारण्ये सार्थवाहोऽधुना धनः । काशिं यास्याम्यहं गच्छ स्वावासं प्रति सम्प्रति ॥ ४९ ॥ अन्वयः - अस्मिन् अरण्ये मम अधुना धनः सार्थवाहः मिलितः, अहं काशिं यास्यामि, सम्प्रति (त्वं) स्व आवासं प्रति गच्छ ॥४९॥ इत्युक्त्वा प्रेषितो विप्रस्- त्रपमाणस्तदा ययौ । सहैव सार्थवाहेन सोऽपि वाणारसीमगात् ॥५०॥ अन्वयः- तदा इति उक्त्वा प्रेषितः पमाणः विप्रः ययौ, सः अपि सार्थवाहेन सहैव वाणारसीं अगात् ॥५०॥ यावल्लक्ष्मीधरो याति वसन्तपुरपत्तनम् । जिनदासवियोगेन तावदार्त्तोऽस्ति भूपतिः ॥५१॥ अन्वयः - यावत् लक्ष्मीधरः वसन्तपुरपत्तनं याति तावत् जिनदासवियोगेन भूपतिः आर्त्तः अस्ति ॥ ५१ ॥ इति लक्ष्मीधरो मत्वा गत्वा क्षितिपतेः पुरः । स्वरूपं जिनदासस्य मन्त्रिणश्च न्यवेदयत् ॥५२॥ अन्वयः- इति मत्वा लक्ष्मीधरः क्षितिपतेः पुरः गत्वा, जिनदासस्य मन्त्रिणः च स्वरूपं न्यवेदयत् ॥५२॥ श्रुत्वेति भूभुजा मन्त्री कारागारे नियन्त्रितः । पश्यतो जिनदासस्य हन्तव्योऽयमिति क्रुधा ॥५३॥ १. त्रपमाण:=(त्रपा=लज्जा) = लज्जा पामतो । २. आर्तः = दुःखी ।

Loading...

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154