Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan
View full book text
________________
३०८
सुलभचरित्राणि-२ दत्तात्मा जिनदासोऽभूज्जयात्मा रत्नवत्यपि । दानरोधादभूलक्ष्मीस्त्वन्मित्रे सकृदन्तरा ॥८१॥ अन्वयः- दत्त आत्मा जिनदासः अभूत् जया आत्मा अपि रत्नवती,
____दानरोधात् त्वत् मित्रे लक्ष्मीः सकृत् अन्तरा अभूत् ॥८१॥ श्रुत्वेति प्राग्भवं स्मृत्वा गुरुं नत्वा गताः पुरम् । धर्मध्यानरताः प्रापु¥पाद्यास्ते महोदयम् ॥८२॥ अन्वयः- इति प्राग्भवं श्रुत्वा गुरुं नत्त्वा पुरं गताः,
धर्मध्यानरताः ते नृपाद्याः महोदयं प्रापुः ॥८२॥ इत्याकर्ण्य जनाः सौम्यं सुमित्राया निदर्शनम् । व्रतं सेवध्वमतिथिसंविभागं शुभास्पदम् ॥८३॥ अन्वयः- इति सुमित्रायाः सौम्यं निदर्शनं आकर्ण्य,
(हे) जनाः । शुभ-आस्पदं अतिथिसंविभागं व्रतं सेवध्वम् ॥८३।।
। इति द्वादशे अतिथिसंविभागवते । | सुमित्राकथा समाप्ता ॥
अभ्यास
(१) वसन्तपुराधीशः कीदृशोऽभूत् ? (२) वसन्तपुरस्य मन्त्रिणः नाम किं ? (३) जिनदासस्य श्वशुरस्य: दयितायाः च नाम किं ? (४) सुमित्रायाः दानप्रभावात् क्व किं च अभूत् ? (५) अतिथि-संविभागव्रतस्य कः अर्थः स्यात् ?

Page Navigation
1 ... 147 148 149 150 151 152 153 154