Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 147
________________ ३०६ सुलभचरित्राणि-२ अन्वयः- स्वं नियमं संस्मृत्य सा चेतसि इति निश्चिकाय, जन्मनः अन्ते अपि भोज्यमात्रेऽपि अदत्ते न भोक्ष्ये ॥७०॥ उपवासाष्टकस्यान्ते तस्याः सत्त्वमहानिधेः । वृतमज्ञापयद्दत्तं दुर्यशः शङ्किता जया ॥७१॥ अन्वयः- उपवास अष्टकस्य अन्ते सत्त्वमहानिधेः तस्याः, वृत्तं दुर्यशशङ्किता जया दत्तं अज्ञापयत् ॥१॥ दत्तेन बन्धुभिः सार्धं निर्बन्धं बध्नताधिकम् । नवमेऽह्नि भोक्तुमुपवेशिता सेत्यचिन्तयत् ॥७२॥ अन्वयः- बन्धुभिः सार्धं अधिकं निर्बन्धं बध्नता दत्तेन, नवमे अनि भोक्तुं उपवेशिता सा इति अचिन्तयत् ॥७२॥ कारणं भोजनात्यागे विदन्नपि सुतः स्वयम् । न मां दापयते किञ्चिद् धिग्मे दुःकर्मजृम्भितम् ॥७३॥ अन्वयः- भोजनत्यागे कारणं विदन् अपि सुतः स्वयं, मां किञ्चित् न दापयते, मे दुःकर्मजृम्भितं धिक् (अस्तु) ॥७३।। तत्स्वभोज्यमिदं किञ्चित्कस्मैचिच्चेदृदेऽधुना । तन्मे स्यान्नियमः श्लाघ्योऽश्लाघ्यो न स्याच्च मे सुतः ॥७४॥ अन्वयः- तत् अधुना इदं स्वभोज्यं किञ्चित् कस्मैचित् ददे, तत् मे नियमः श्लाघ्यः स्यात् मे च सुतः अश्लाघ्यः न स्यात् ॥७४|| ध्यायन्त्येति गृहायातः सहसैव मुनिस्तदा । अदृश्यत तया मूर्तः पुण्यराशिरिवात्मनः ॥७५॥ अन्वयः- इति ध्यायन्त्या तदा सहसा एव मुनिः गृहायातः, आत्मनः मूर्तः पुण्यराशिः इव तया अदृश्यत ॥७५॥

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154