Book Title: Sulabh Charitrani Part 02
Author(s): Vajrasenvijay
Publisher: Bhadrankar Prakashan

View full book text
Previous | Next

Page 145
________________ ३०४ सुलभचरित्राणि-२ अन्वयः- मुनि नत्वा उपदेशं च श्रुत्वा नृपः अदः अवादीत्, (हे) प्रभो! मन्मित्रे जिनदासे सापदः सम्पदः किं ॥५९॥ अथ ज्ञानामृताम्भोधिर्दशनद्युतिवीचिभिः । तत्पुण्यवेलाविपिनं प्लावयन्प्रभुरभ्यधात् ॥६०॥ अन्वयः- अथ 'दशनद्युतिवीचिभिः तत्पुण्यवेलाविपिनं प्लावयन् ज्ञानामृताम्भोधिः प्रभुः अभ्यधात् ॥६०॥ कौशाम्ब्यां दत्तनामाभून्मातृभक्तो धनी वणिक् । सुमित्राख्या जनन्यस्य दयिता च जयाह्वया ॥६१॥ अन्वयः- कौशाम्ब्यां मातृभक्तः दत्तनामा धनी वणिक् अभूत्, अस्य सुमित्रा आख्या जननी, जया आह्वया दयिता च (अभूत्) ॥६१॥ दानमेव गृहस्थानां मुख्यो धर्म इति स्फुटम् । स्वगुरोर्वाचमाचख्यौ सुमित्रा सुनवेऽन्यदा ॥१२॥ अन्वयः- गृहस्थानां दानं एव मुख्यः धर्मः इति स्वगुरोः स्फुटं वाचं अन्यदा सुमित्रा सुनवे आचख्यौ ॥६२॥ दानोन्मुखं मनो मातुर्मत्वा मतिमतां वरः । आनन्दाज्जननीं नत्वा सभार्यः स व्यजिज्ञपत् ॥१३॥ अन्वयः- मातुः मनः दानोन्मुखं मत्त्वा मतिमतां वरः सभार्यः सः जननीं नत्वा आनन्दात् व्यजिज्ञपत् ॥६३॥ यथाविधि सुपात्रेषु कृपापात्रेष्वपि स्वयम् । देहि त्वं हि धनं धान्यं त्वत्प्रसादाद्गृहे बहु ॥६४॥ अन्वयः- त्वं स्वयं यथाविधि सुपात्रेषु कृपापात्रेषु अपि धनं धान्यं देहि, त्वत् प्रसादात् गृहे बहु (सन्ति) ॥६४॥ १. दशनद्युतिवीचिभिः-दांतनी कांतिना तरंगोथी ।

Loading...

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154